GP:रत्नकरंड श्रावकाचार - श्लोक 134 - टीका
From जैनकोष
नि:श्रेयसमधिपन्ना: प्राप्तास्ते दधते धरन्ति । काम् ? त्रैलोक्यशिखामणिश्रियं त्रैलोक्यस्य शिखा चूडाऽप्रभागस्तत्र मणिश्री: चूडामणिश्री: ताम् । किंविशिष्टा: सन्त इत्याह- निष्किट्टेत्यादि । किट्टं च कालिका च ताभ्यां निष्क्रान्ता सा छविर्यस्य तच्चामीकरं च सुवर्णं तस्येव भासुरो निर्मलतया प्रकाशमान आत्मा स्वरूपं येषाम् ॥