GP:रत्नकरंड श्रावकाचार - श्लोक 52 - टीका
From जैनकोष
अणुव्रतं विकलव्रतम् । किं तत् ? व्यपुरमणं व्यावर्तनं यत् । केभ्य: इत्याह- प्राणेत्यादि प्राणानामिन्द्रियादीनामतिपातश्चातिपतनं वियोगकरणं विनाशनम् । वितथव्याहाराश्च वितथो असत्य: स चासौ व्याहारश्च शब्द:। स्तेयं च चौर्यम्। कामश्च मैथुनम्। मूर्च्छा च परिग्रह: मूर्च्छा च मूच्छ्र्यते लोभावेशात् परिग्रह्यते इति मूर्च्छा इति व्युत्पत्ते: । तेभ्य: । कथम्भूतेभ्य: ? स्थूलेभ्य: । अणुव्रतधारिणो हि सर्वसावद्यविरतेरसम्भवात् स्थूलेभ्य एव हिंसादिभ्यो व्यपुरमणं भवति । स हि त्रसप्राणातिपातात्रसप्राणातिपातान्निव्रत्तो न स्थावरप्राणातिपातात् । तथा पापादिभयात् परपीडादिकारणमिति मत्वा स्थूलादसत्यवचननिव्रत्तो न तदि्वपरीतात् । तथा उपात्ताया अनुपात्तायाश्च पराङ्गनाया: पापाभयादिना निव्रत्तो नान्यथा इति स्थूलरूपात् परिग्रहान्निव्रत्ति: । कथम्भूतेभ्य: प्राणातिपातादिभ्य: ? पापेभ्य: पापास्रणद्वारेभ्य: ॥५२॥