Actions

पाठ

मृत्युमहोत्सव

From जैनकोष

मृत्यु - मार्गे प्रवृत्तस्य वीतरागोददातु मे

समाधि-बोधि-पाथेयं यावन्मुक्ति-पुरी पुर: ॥१॥


कृमि - जाल - शताकीर्णे, जर्जरे देह - पञ्जरे

भज्यमाने न भेतव्यं, यतस्त्वं ज्ञान-विग्रह: ॥२॥


ज्ञानिन् भयं भवेत्कस्मात्प्राप्ते मृत्यु-महोत्सवे

स्वरूपस्थ: पुरं याति, देही देहान्तर-स्थितिम् ॥३॥


सुदत्तं प्राप्यते यस्माद्, दृश्यते पूर्व-सत्तमै:

भुज्यते-स्वर्भवं सौख्यं मृत्युभीति: कुत: सताम् ॥४॥


आगर्भाद्दु:ख - सन्तप्त: प्रक्षिप्तो देह-पिञ्जरे

नात्मा विमुच्यतेऽन्येन मृत्यु-भूमिपतिं विना ॥५॥


सर्व - दु:खं - प्रदं पिण्डं दूरीकृत्यात्मदर्शिभि:

मृत्यु-मित्र-प्रसादेन प्राप्यन्ते सुख-सम्पद: ॥६॥


मृत्यु-कल्पद्रुमे प्राप्ते येनात्मार्थो न साधित:

निमग्नो जन्म-जम्बाले स पश्चात् किं करिष्यति ॥७॥


जीर्णं देहादिकं सर्वं नूतनं जायते यत:

स मृत्यु: किं न मोदाय सतां सतोत्थितिर्यथा ॥८॥


सुखं दु:खं सदा वेत्ति देहस्थश्च स्वयं व्रजेत्

मृत्यु-भीतिस्तदा कस्य जायते परमार्थत: ॥९॥


संसारासक्त-चित्तानां मृत्युर्भीत्यै भवेन्नृणाम्

मोदायते पुन: सोऽपि ज्ञान-वैराग्यवासिनाम् ॥१०॥


पुराधीशो यदा याति सुकृत्यस्य बुभुत्सया

तदासौ वार्यते केन प्रपञ्चै: पाञ्च-भौतिकै: ॥११॥


मृत्यु-काले सतां दु:खं यद् भवेद् व्याधि-संभवम्

देह-मोह-विनाशाय मन्ये शिव-सुखाय च॥ १२॥


ज्ञानिनोऽमृत - सङ्गाय मृत्युस्तापकरोऽपि सन्

आमकुम्भस्य लोकेऽस्मिन् भवेत्पाकविधिर्यथा ॥१३॥


यत्फलं प्राप्यते सद्भिव्र्रतायास - विडम्बनात्

तत्फलं सुखसाध्यं स्यान्मृत्यु-काले समाधिना ॥१४॥


अनार्त: शान्तिमान् मत्र्यो न तिर्यग्नापि नारक:

धम्र्य-ध्यानी पुरो मत्र्योऽनशनी त्वमरेश्वर:॥ १५॥


तप्तस्य तपसश्चापि पालितस्य व्रतस्य च

पठितस्य श्रुतस्यापि फलं मृत्यु: समाधिना॥ १६॥


अतिपरिचितेष्ववज्ञा नवे भवेत्प्रीतिरिति हि जन-वाद:

चिरंतर-शरीर-नाशे नवतर-लाभे च किं भीरु:॥१७॥


स्वर्गादेत्य पवित्र-निर्मल - कुले संस्मर्यमाणा जनै-

र्दत्वा भक्ति-विधायिनां बहुविधं वाञ्छानुरूपं धनम्!

भुक्त्वा भोगमहर्निशं पर-कृतं स्थित्वा क्षणं मण्डले,

पात्रावेश-विसर्जनामिव मृतिं सन्तो लभन्ते स्वत: ॥१८॥