Actions

पाठ

सामायिक पाठ—आचार्य अमितगति

From जैनकोष

(आ.अमितगति कृत)

सत्त्वेषु मैत्रीं गुणिषु प्रमोदं क्लिष्टेषु जीवेषु कृपापरत्वं

माध्यस्थभावं विपरीतवृत्तौ, सदा ममात्मा विदधातु देव ॥१॥


शरीरत: कर्तुमनंतशत्तिं विभिन्नमात्मानमपास्तदोषम्

जिनेंद्र कोषादिव खड्गयष्टिं, तव प्रसादेन ममास्तु शक्ति: ॥२॥


दु:खे सुखे वैरिणि बंधुवर्गे, योगे वियोगे भवने वने वा

निराकृताशेषममत्वबुद्धे:, समं मनो मेऽस्तु सदापि नाथ ॥३॥


मुनीश! लीनाविव कीलिताविव, स्थिरौ निखाताविव विंबिताविव

पादौ त्वदीयौ मम तिष्ठतां सदा, तमो धुनाना हृदि दीपिकाविव ॥४॥


एकेन्द्रियाद्य यदि देव! देहिन:, प्रमादत: संचरता इतस्तत:

क्षता: विभिन्ना मिलिता निपीडितास्तदस्तु मिथ्या दुरनुष्ठितं तदा ॥५॥


विमुक्तिमार्गप्रतिकूलवर्तिना:, मया कषायाक्षवशेन दुर्धिया

चारित्र शुद्धेर्यदकारि लोपनं,तदस्तु मिथ्या मम दुष्कृतं प्रभो ॥६॥


विनिन्दनालोचनगर्हणैरहं मनोवच: कायकषायनिर्मितम्

निहन्मि पापं भवदु:खकारणं भिषग्विषं मंत्रगुणैरिवाखिलम् ॥७॥


अतिक्रमं यद्विमतेव्र्यतिक्रमं जिनातिचारं सुचरित्रकर्मण:

व्यधामनाचारमपि प्रमादत: प्रतिक्रमं तस्य करोमि शुद्धये ॥८॥


क्षतिं मन:शुाद्धविधेरतिक्रमं, व्यतिक्रमं शीलवृतेर्विलंघनम्

प्रभोऽतिचारं विषयेषु वर्तनं, वदन्त्यनाचारमिहातिसक्तताम् ॥९॥


यदर्थमात्रापदवाक्यहीनं, मया प्रमादाद् यदि किञ्चनोक्तम्

तन्मे क्षमित्वा विदधातु देवी, सरस्वती केवलबोधलब्धिम् ॥१०॥


बोधि: समाधि: परिणामशुद्धि:, स्वात्मोपलब्धि: शिवसौख्यसिद्धि:

चिंतामणिं चिंतितवस्तुदाने, त्वां वंद्यमानस्य ममास्तु देवि! ॥११॥


य: स्मर्यते सर्वमुनीन्द्रवृंदै:, य: स्तूयते सर्वनरामरेन्द्रै:

यो गीयते वेदपुराणशास्त्रै:, स देवदेवो हृदये ममास्ताम् ॥१२॥


यो दर्शनज्ञानसुखस्वभाव:, समस्तसंसारविकारबाह्य:

समाधिगम्य: परमात्मसंज्ञ:, स देवदेवो हृदये ममास्ताम् ॥१३॥


निषूदते यो भवदु:खजालं, निरीक्षते यो जगदंतरालं

योऽन्तर्गतो योगिनिरीक्षणीय:, स देवदेवो हृदये ममास्ताम् ॥१३॥


विमुक्तिमार्गप्रतिपादको यो, यो जन्ममृत्युव्यसनाद्व्यतीत:

त्रिलोकलोकी विकलोऽकलंक: स देवदेवो हृदये ममास्ताम् ॥१४॥


क्रोडीकृताशेषशरीरिवर्गा, रागादयो यस्य न संति दोषा:

निरिन्द्रियो ज्ञानमयोऽनपाय:, स देवदेवो हृदये ममास्ताम् ॥१५॥


यो व्यापको विश्वजनीनवृत्ते:, सिद्धो विबुद्धो धुतकर्मबंध:

ध्यातो धुनीते सकलं विकारं, स देवदेवो हृदये ममास्ताम् ॥१६॥


न स्पृश्यते कर्मकलंकदोषै:, यो ध्वांतसंघैरिव तिग्मरश्मि:

निरंजनं नित्यमनेकमेकं, तं देवमाप्तं शरणं प्रपद्ये ॥१७॥


विभासते तत्र मरीचिमाली, न विद्यमाने भुवनावभासि

स्वात्मस्थितं बोधमयप्रकाशं, तं देवमाप्तं शरणं प्रपद्ये ॥१८॥


विभासते तत्र मरीचिमाली, न विद्यमाने भुवनावभासि

स्वात्मस्थितं बोधमयप्रकाशं, तं देवमाप्तं शरणं प्रपद्ये ॥१९॥


विलोक्यमाने सति यत्र विश्वं, विलोक्यते स्पष्टमिदं विविक्तम्

शुद्धं शिवं शांतमनाद्यनंतं, तं देवमाप्तं शरणं प्रपद्ये ॥२०॥


न संस्तरोऽश्मा न तृणं न मेदिनी, विधानतो नो फलको विनिर्मित:

यतो निरस्ताक्षकषायविद्विष:, सुधीभिरात्मैव सुनिर्मलो मत: ॥२२॥


न संस्तरो भद्र! समाधिसाधनं, न लोकपूजा न च संघमेलनम्

यतस्ततोऽध्यात्मरतो भवानिशं, विमुच्य सर्वामपि बाह्यवासनाम् ॥२३॥



न संति बाह्या मम केचनार्था, भवामि तेषांं न कदाचनाहं

इत्थं विनिश्चित्य विमुच्य बाह्यं, स्वस्थ: सदा त्वं भव भद्र! मुक्त्यै ॥२४॥


आत्मानमात्मन्यवलोक्यमानस्त्वं दर्शनज्ञानमयो विशुद्ध:

एकाग्रचित्त: खलु यत्र तत्र स्थितोऽपि साधुर्लभते समाधिम् ॥२५॥


एक: सदा शाश्वतिको ममात्मा, विनिर्मल: साधिगमस्वभाव:

बहिर्भवा: सन्त्यपरे समस्ता, न शाश्वता: कर्मभवा: स्वकीया: ॥२६॥


यस्यास्ति नैक्यं वपुषापि सार्धं, तस्यास्ति विं पुत्रकलत्रमित्रै:

पृथक्कृते चर्मणि रोमवूâपा:, कतो हि तिष्ठंति शरीरमध्ये ॥२७॥


संयोगतो दु:खमनेकभेदं, यतोऽश्नुते जन्मवने शरीरी

ततस्त्रिधासौ परिवर्जनीयो, यियासुना निर्वृतिमात्मनीनाम् ॥२८॥


सर्वं निराकृत्य विकल्पजालं, संसारकांतारनिपातहेतुम्

विविक्तमात्मानमवेक्ष्यमाणो, निलीयसे त्वं परमात्मतत्त्वे ॥२९॥


स्वयं कृतं कर्म यदात्मना पुरा, फलं तदीयं लभते शुभाशुभम्

परेण दत्तं यदि लभ्यते स्फुटं, स्वयं कृतं कर्म निरर्थकं तदा ॥३०॥


नजार्जितं कर्म विहाय देहिनो, न कोऽपि कस्यापि ददाति कचन

विचारयन्नेवमनन्यमानस: परो ददातीति विमुंच शेमुषीम् ॥३१॥


यै: परमात्माऽमितगतिवंद्य:, सर्वविविक्तो भृशमनवंद्य:

शश्वदधीतो मनसि लभंते, मुक्तिनिकेतं विभववरं ते ॥३२॥


इति द्वात्रिंशता वृत्तै:, परमात्मानमीक्षते

योऽनन्यगतचेतस्को, यात्यसौ पदमव्ययम् ॥३३॥