• जैनकोष
    जैनकोष
  • Menu
  • Main page
    • Home
    • Dictionary
    • Literature
    • Kaavya Kosh
    • Study Material
    • Audio
    • Video
    • Online Classes
    • Home
    • Dictionary
    • Literature
    • Kaavya Kosh
    • Study Material
    • Audio
    • Video
    • Online Classes
    • What links here
    • Related changes
    • Special pages
    • Printable version
    • Permanent link
    • Page information
    • Recent changes
    • Help
    • Create account
    • Log in

जैन शब्दों का अर्थ जानने के लिए किसी भी शब्द को नीचे दिए गए स्थान पर हिंदी में लिखें एवं सर्च करें

 Actions
  • Page
  • Discussion
  • View source
  • View history

समयसार - आत्मख्याति टीका - गाथा 76 - 79

From जैनकोष

पुद्‌गलेन कर्तृकर्मभाव: किं भवति किं न भवतीति चेत्‌ 
ण वि परिणमदि ण गिण्हदि उप्पज्जदि णपरदव्वपज्जाए ।
णाणी जाणंतो वि हु पोग्गलकम्मं अणेयविहं ॥७६॥
ण वि परिणमदि ण गिण्हदि उप्पज्जदि ण परदव्वपज्जाए ।
णाणी जाणंतो वि हु सगपरिणामं अणेयविहं ॥७७॥
ण वि परिणमदि ण गिण्हदि उप्पज्जदि ण परदव्वपज्जाए ।
णाणी जाणंतो वि हु पोग्गलकम्मप्फलमणंतं ॥७८॥
ण वि परिणमदि ण गिण्हदि उप्पज्जदि ण परदव्वपज्जाए ।
पोग्गलदव्वं पि तहा परिणमदि सएहिं भावेहिं ॥७९॥


नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये ।
ज्ञानी जानन्नपि खलु पुद्‌गलकर्मानेकविधम्‌ ॥७६॥
नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये ।
ज्ञानी जानन्नपि खलु स्वकपरिणाममनेकविधम्‌ ॥७७॥
नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये ।
ज्ञानी जानन्नपि खलु पुद्‌गलकर्मफलमनन्‍तम्‌ ॥७८॥
नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये ।
पुद्‌गलद्रव्यमपि तथा परिणमति स्वकैर्भावै: ॥७९॥


यतो यं प्राप्यं विकार्यं निर्वर्त्यं च व्याप्यलक्षणं पुद्‌गलपरिणामं कर्म पुद्‌गलद्रव्येण स्वयमन्‍त-र्व्यापकेन भूत्वादिमध्यान्‍तेषु व्याप्य तं गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानन्नपि
हि ज्ञानी स्वयमन्‍तर्व्यापको भूत्वा बहि:स्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यान्‍तेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च, तत: प्राप्यं विकार्यं निर्वर्त्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य पुद्‌गलकर्म जानतोऽपि ज्ञानिन: पुद्‌गलेन सह न कर्तृकर्मभाव: ।
यतो यं प्राप्यं विकार्यं निर्वर्त्यं च व्याप्यलक्षणमात्मपरिणामं कर्म आत्मना स्वयमन्‍तर्व्यापकेन भूत्वादिमध्यान्‍तेषु व्याप्य तं गृह्णता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानन्नपि हिज्ञानी स्वयमन्‍तर्व्यापको भूत्वा बहि:स्थस्य परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यान्‍तेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च, तत: प्राप्यं विकार्यं निर्वर्त्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य स्वपरिणामं जानतोऽपि ज्ञानिन: पुद्‌गलेन सह न कर्तृकर्मभाव: ।
यतो यं प्राप्यं विकार्यं निर्वर्त्यं च व्याप्यलक्षणं सुखदु:खादिरूपं पुद्‌गलकर्मफलं कर्म पुद्‌गल- द्रव्येण स्वयमन्‍तर्व्यापकेन भूत्वादिमध्यान्‍तेषु व्याप्य तद्‌ गृह्णता तथा परिणमता तथोत्पद्यमानेन च
क्रियमाणं जानन्नपि हि ज्ञानी स्वयमन्‍तर्व्यापको भूत्वा बहि:स्थस्य परद्रव्यस्य परिणामं मृत्तिका-कलशमिवादिमध्यान्‍तेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च ।
तत: प्राप्यं विकार्यं निर्वर्त्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य सुखदु:खादिरूपं पुद्‌गलकर्मफलं जानतोऽपि ज्ञानिन: पुद्‌गलेन सह न कर्तृकर्मभाव: ।
जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चाजानत: पुद्‌गलद्रव्यस्य सह जीवेन कर्तृकर्मभाव: किं भवति किं न भवतीति चेत्‌ 
यतो जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चाप्यजानत्पुद्‌गलद्रव्यं स्वयमन्‍तर्व्यापकं भूत्वा परद्रव्यस्य परिणामं मृत्तिकाकलशमिवादिमध्यान्‍तेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च, किं तु प्राप्यं विकार्यं निर्वर्त्यं च व्याप्यलक्षणं स्वभावं कर्म स्वयमन्‍तर्व्यापकं भूत्वादिमध्यान्‍तेषु व्याप्य तमेव गृह्णाति तथैव परिणमति तथैवोत्पद्यते च ।
तत: प्राप्यं विकार्यं निर्वर्त्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चाजानत: पुद्‌गलद्रव्यस्य जीवेन सह न कर्तृकर्मभाव: ॥७६-७९ ॥


Previous Page Next Page

See Also

  • समयसार कर्ता-कर्म अधिकार
  • समयसार अनुक्रमणिका
  • आचार्य कुंद्कुंद
  • आचार्य अमृतचंद्र
  • समयसार - तात्पर्यवृत्ति टीका - गाथा 76 - 79
Retrieved from "https://www.jainkosh.org/w/index.php?title=समयसार_-_आत्मख्याति_टीका_-_गाथा_76_-_79&oldid=8124"
JainKosh

जैनकोष याने जैन आगम का डिजिटल ख़जाना ।

यहाँ जैन धर्म के आगम, नोट्स, शब्दकोष, ऑडियो, विडियो, पाठ, स्तोत्र, भक्तियाँ आदि सब कुछ डिजिटली उपलब्ध हैं |

Quick Links

  • Home
  • Dictionary
  • Literature
  • Kaavya Kosh
  • Study Material
  • Audio
  • Video
  • Online Classes

Other Links

  • This page was last edited on 10 December 2013, at 14:55.
  • Privacy policy
  • About जैनकोष
  • Disclaimers
© Copyright Jainkosh. All Rights Reserved
  • Powered by MediaWiki