रत्नकरंड श्रावकाचार - श्लोक 103 - टीका: Difference between revisions
From जैनकोष
(Imported from text file) |
(No difference)
|
Latest revision as of 21:30, 2 November 2022
अधिकुर्वीरन् सहेरन्नित्यर्थ: । के ते ? सामयिकं प्रतिपन्ना: सामायिकं स्वीकृतवन्त: । किं विशिष्टा: सन्त: ? अचलयोगा: स्थिरसमाधय: प्रतिज्ञानुष्ठानापरित्यागिनो वा । तथा मौनधरास्तत्पीडायां सत्यामपि क्लीबादिवचनानुच्चारका: दैन्यादिवचनानुच्चारका: । कमधिकुर्वीरन्नित्याह- शीत्येत्यादि-शीतोष्णदंशमशकानां पीडाकारिणां तत्परिसमन्तात् सहनं तत्परीषहस्तं, न केवलं तमेव अपि तु उपसर्गमपि च देवमनुष्यतिर्यक्कृतम् ॥