रत्नकरंड श्रावकाचार - श्लोक 121 - टीका: Difference between revisions
From जैनकोष
(Imported from text file) |
(No difference)
|
Latest revision as of 21:30, 2 November 2022
पञ्चैते आर्यापूर्वार्धकथिता । वैयावृत्तस्य व्यतिक्रमा: कथ्यन्ते । तथाहि । हरितपिधाननिधाने हरितेन पद्मपत्रादिना पिधानं झम्पनमाहारस्य । तथा हरिते तस्मिन् निधानं स्थापनम् । तस्य अनादर: प्रयच्छतोऽप्यादराभाव: । अस्मरणमाहारादिदानमेतस्यां वेलामेवंविधपात्राय दातव्यमिति आहार्यवस्तुष्विदं दत्तमदत्तमिति वा स्मृतेरभाव: । मत्सरत्वमन्यदातृदानगुणासहिष्णुत्वमिति ॥
इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितोपासकाध्ययनटीकायां चतुर्थ: परिच्छेद: ।