रत्नकरंड श्रावकाचार - श्लोक 131 - टीका: Difference between revisions
From जैनकोष
(Imported from text file) |
(No difference)
|
Latest revision as of 21:30, 2 November 2022
नि:श्रेयसमिष्यते । किम् ? निर्वाणम् । कथम्भूतं शुद्धसुखं शुद्धं प्रतिद्वन्द्वरहितं सुखं यत्र । तथा नित्यम् अविनश्वरस्वरूपम् । तथा परिमुक्तं रहितम् । कै: ? जन्मजरामयमरणै:, जन्म च पर्यायान्तरप्रादुर्भाव:, जरा च वाद्र्धक्यम्, आमयाश्च रोगा:, मरणं च शरीरादिप्रच्युति:। तथा शोकैर्दु:खैर्भयैश्च परिमुक्तम् ॥