रत्नकरंड श्रावकाचार - श्लोक 31 - टीका: Difference between revisions
From जैनकोष
(Imported from text file) |
(No difference)
|
Latest revision as of 21:30, 2 November 2022
दर्शनं कर्तृ उपाश्रुते प्राप्रोति कम् ? साधिमानं साधुत्वमुत्कृष्टत्वं वा । कस्मात् ? ज्ञानचारित्रात् । यतश्च साधिमानं तस्माद्दर्शनमुपाश्रुते । तत् तस्मात् । मोक्षमार्गे रत्नत्रयात्मके दर्शनं कर्णधारं प्रधानं प्रचक्षते । यथैव हि कर्णधारस्य नौखेवटकस्य कैवर्तकस्याधीना समुद्रपरतीरगमने नाव: प्रवृत्ति: तथा संसारसमुद्रपर्यन्तगमने सम्यग्दर्शनकर्णधाराधीना मोक्षमार्गनाव: प्रवृत्ति: ॥३१॥