रत्नकरंड श्रावकाचार - श्लोक 54 - उत्थानिका: Difference between revisions
From जैनकोष
(Imported from text file) |
(No difference)
|
Latest revision as of 21:30, 2 November 2022
व्यतीचारा विविधा विरूपका वा अतीचारा दोषा: । कति ? पञ्च । कस्य ? स्थूलवधाद् व्युपरते: । कथमित्याह छेदनेत्यादि कर्णनासिकादीनामवयवानामपनयनं छेदनं, अभिमतदेशे गतिनिरोधहेतुर्बन्धनं, पीडादण्डकशाद्यभिघात:, अतिभारारोपणं न्याय्यभारादधिकभारारोपणम् । न केवलमेतच्चतुष्टयमेव किन्तु आहारवारणापि च आहारस्य अन्नपानलक्षणस्य वारणा निषेधो धारणा वा निरोध: ॥