पंचास्तिकाय संग्रह-सूत्र - गाथा 8 - समय-व्याख्या: Difference between revisions
From जैनकोष
(Imported from text file) |
(Imported from text file) |
||
Line 1: | Line 1: | ||
<div class=" | <div class="G_SanskritText"> | ||
<p>अत्रास्तित्वस्वरूपमुक्तम् । अस्तित्वं हि सत्ता नाम सतो भाव: सत्त्वम् । न सर्वथा नित्यतया सर्वथा क्षणिकतया या विद्यमानमात्रं वस्तु । सर्वथा नित्यस्य वस्तुनस्तत्त्वत: क्रमभुवां भावानामभावात्कुतो विकारवत्त्वम् । सर्वथा क्षणिकस्य च तत्त्वत: प्रत्यभिज्ञानाभावात् कुत एकसंतानत्वम् । तत: प्रत्यभिज्ञानहेतुभूतेन केनचित्स्वरूपेण ध्रौव्यमालम्ब्यमानं काभ्यांचित्क्रमप्रवृत्ताभ्यां रूवरूपाभ्यां प्रलीयमानमुपजायमानं चैककालमेव परमार्थतस्त्रितयीमवस्थां बिभ्राणं वस्तु सदवबोध्यम् । अंत एव सत्तापुत्पादव्ययध्रौव्यात्मिकाऽवबोद्धव्या, भावभाववतो: कथंचिदेकस्वरूपत्वात् । सा च त्रिलक्षणस्य समस्तस्यापि वस्तुविस्तारस्य सादृश्यसूचकन्वादेका । सर्वपदार्थस्थिता च त्रिलक्षणस्य सदित्यभिधानस्य सदिति प्रत्ययस्य च सर्वपदार्थेषु तन्मूलस्यैवोपलम्भात् सविश्वरूपा च विश्वस्य समस्तवस्तुविस्तारस्यापि रूपैस्त्रिलक्षणै: स्वभावै: सह वर्तमानत्वात्, अनन्तपर्याया चानन्ताभिर्द्रव्यपर्यायव्यक्तिभिस्त्रिलक्षणाभि: परिगम्यमानत्वात् । एवंभूतापि सा न खलु निरंकुशा किन्तु सप्रतिपक्षा । प्रतिपक्षो ह्यसत्ता सत्ताया:, अत्रिलक्षणत्वं त्रिलक्षणाया:, अनेकत्वमेकस्या:, एकपदार्थस्थितत्वं सर्वपदार्थस्थिताया:, एकरूपत्वं सविश्वरूपाया:, एकपर्यायत्वमनन्तपर्यायाया इति । द्विविधा हि सत्ता—महासत्तावान्तरसत्ता च । तत्र सर्वपदार्थसार्थव्यापिनी सादृश्यास्तित्वसूचिका महासत्ता प्रोक्तैव । अन्या तु व्रतिनियतवस्तुवर्तिनी स्वरूपास्तित्वसूचिकाऽवान्तरसत्ता । तत्र महासत्ताऽवान्तरसत्तारूपेणाऽसत्ताऽवान्तरसत्ता च महासत्तारूपेणाऽसत्तेत्यसत्ता सत्ताया: । येन स्वरूपेणोत्पादस्तत्तथोत्पादैकलक्षणमेव, येन स्वरूपेणोच्छेदस्तत्तथोच्छेदेकलक्षणमेव, येन स्वरूपेण ध्रौव्यं तत्तथा ध्रौव्यैकलक्षणमेव, तत उत्पद्यमानोच्छिद्यमानावतिष्ठमानानां वस्तुन: स्वरूपाणां प्रत्येकं त्रैलक्षण्याभावादत्रिलक्षणत्वं त्रिलक्षणाया: । एकस्य वस्तुन: स्वरूपसत्ता नान्यस्य वस्तुन: एकरूपसत्ता भवतीत्यनेकत्वमेकस्या: । प्रतिनियतपदार्थस्थिताभिरेव सत्ताभि: पदार्थानां प्रतिनियमो भवतीत्येकपदार्थस्थितत्वं सर्वपदार्थस्थिताया: । प्रतिनियतैकरूपाभिरेव सत्ताभि: प्रतिनियतैकरूपत्वं वस्तूनां भवतीत्येकरूपत्वं सविश्वरूपाया: । प्रतिपर्यायनियताभिरेव सत्ताभि: प्रतिनियतैकपर्यायाणामानन्त्यं भवतीत्येकपर्यायत्वमनन्तपर्याया: । इति सर्वमनवद्यं सामान्यविशेषप्ररूपणप्रवणनयद्वयायत्तत्वात्तद्देशनाया: ॥८॥</p> | <p>अत्रास्तित्वस्वरूपमुक्तम् । अस्तित्वं हि सत्ता नाम सतो भाव: सत्त्वम् । न सर्वथा नित्यतया सर्वथा क्षणिकतया या विद्यमानमात्रं वस्तु । सर्वथा नित्यस्य वस्तुनस्तत्त्वत: क्रमभुवां भावानामभावात्कुतो विकारवत्त्वम् । सर्वथा क्षणिकस्य च तत्त्वत: प्रत्यभिज्ञानाभावात् कुत एकसंतानत्वम् । तत: प्रत्यभिज्ञानहेतुभूतेन केनचित्स्वरूपेण ध्रौव्यमालम्ब्यमानं काभ्यांचित्क्रमप्रवृत्ताभ्यां रूवरूपाभ्यां प्रलीयमानमुपजायमानं चैककालमेव परमार्थतस्त्रितयीमवस्थां बिभ्राणं वस्तु सदवबोध्यम् । अंत एव सत्तापुत्पादव्ययध्रौव्यात्मिकाऽवबोद्धव्या, भावभाववतो: कथंचिदेकस्वरूपत्वात् । सा च त्रिलक्षणस्य समस्तस्यापि वस्तुविस्तारस्य सादृश्यसूचकन्वादेका । सर्वपदार्थस्थिता च त्रिलक्षणस्य सदित्यभिधानस्य सदिति प्रत्ययस्य च सर्वपदार्थेषु तन्मूलस्यैवोपलम्भात् सविश्वरूपा च विश्वस्य समस्तवस्तुविस्तारस्यापि रूपैस्त्रिलक्षणै: स्वभावै: सह वर्तमानत्वात्, अनन्तपर्याया चानन्ताभिर्द्रव्यपर्यायव्यक्तिभिस्त्रिलक्षणाभि: परिगम्यमानत्वात् । एवंभूतापि सा न खलु निरंकुशा किन्तु सप्रतिपक्षा । प्रतिपक्षो ह्यसत्ता सत्ताया:, अत्रिलक्षणत्वं त्रिलक्षणाया:, अनेकत्वमेकस्या:, एकपदार्थस्थितत्वं सर्वपदार्थस्थिताया:, एकरूपत्वं सविश्वरूपाया:, एकपर्यायत्वमनन्तपर्यायाया इति । द्विविधा हि सत्ता—महासत्तावान्तरसत्ता च । तत्र सर्वपदार्थसार्थव्यापिनी सादृश्यास्तित्वसूचिका महासत्ता प्रोक्तैव । अन्या तु व्रतिनियतवस्तुवर्तिनी स्वरूपास्तित्वसूचिकाऽवान्तरसत्ता । तत्र महासत्ताऽवान्तरसत्तारूपेणाऽसत्ताऽवान्तरसत्ता च महासत्तारूपेणाऽसत्तेत्यसत्ता सत्ताया: । येन स्वरूपेणोत्पादस्तत्तथोत्पादैकलक्षणमेव, येन स्वरूपेणोच्छेदस्तत्तथोच्छेदेकलक्षणमेव, येन स्वरूपेण ध्रौव्यं तत्तथा ध्रौव्यैकलक्षणमेव, तत उत्पद्यमानोच्छिद्यमानावतिष्ठमानानां वस्तुन: स्वरूपाणां प्रत्येकं त्रैलक्षण्याभावादत्रिलक्षणत्वं त्रिलक्षणाया: । एकस्य वस्तुन: स्वरूपसत्ता नान्यस्य वस्तुन: एकरूपसत्ता भवतीत्यनेकत्वमेकस्या: । प्रतिनियतपदार्थस्थिताभिरेव सत्ताभि: पदार्थानां प्रतिनियमो भवतीत्येकपदार्थस्थितत्वं सर्वपदार्थस्थिताया: । प्रतिनियतैकरूपाभिरेव सत्ताभि: प्रतिनियतैकरूपत्वं वस्तूनां भवतीत्येकरूपत्वं सविश्वरूपाया: । प्रतिपर्यायनियताभिरेव सत्ताभि: प्रतिनियतैकपर्यायाणामानन्त्यं भवतीत्येकपर्यायत्वमनन्तपर्याया: । इति सर्वमनवद्यं सामान्यविशेषप्ररूपणप्रवणनयद्वयायत्तत्वात्तद्देशनाया: ॥८॥</p> | ||
</div> | </div> |
Latest revision as of 11:38, 20 August 2021
अत्रास्तित्वस्वरूपमुक्तम् । अस्तित्वं हि सत्ता नाम सतो भाव: सत्त्वम् । न सर्वथा नित्यतया सर्वथा क्षणिकतया या विद्यमानमात्रं वस्तु । सर्वथा नित्यस्य वस्तुनस्तत्त्वत: क्रमभुवां भावानामभावात्कुतो विकारवत्त्वम् । सर्वथा क्षणिकस्य च तत्त्वत: प्रत्यभिज्ञानाभावात् कुत एकसंतानत्वम् । तत: प्रत्यभिज्ञानहेतुभूतेन केनचित्स्वरूपेण ध्रौव्यमालम्ब्यमानं काभ्यांचित्क्रमप्रवृत्ताभ्यां रूवरूपाभ्यां प्रलीयमानमुपजायमानं चैककालमेव परमार्थतस्त्रितयीमवस्थां बिभ्राणं वस्तु सदवबोध्यम् । अंत एव सत्तापुत्पादव्ययध्रौव्यात्मिकाऽवबोद्धव्या, भावभाववतो: कथंचिदेकस्वरूपत्वात् । सा च त्रिलक्षणस्य समस्तस्यापि वस्तुविस्तारस्य सादृश्यसूचकन्वादेका । सर्वपदार्थस्थिता च त्रिलक्षणस्य सदित्यभिधानस्य सदिति प्रत्ययस्य च सर्वपदार्थेषु तन्मूलस्यैवोपलम्भात् सविश्वरूपा च विश्वस्य समस्तवस्तुविस्तारस्यापि रूपैस्त्रिलक्षणै: स्वभावै: सह वर्तमानत्वात्, अनन्तपर्याया चानन्ताभिर्द्रव्यपर्यायव्यक्तिभिस्त्रिलक्षणाभि: परिगम्यमानत्वात् । एवंभूतापि सा न खलु निरंकुशा किन्तु सप्रतिपक्षा । प्रतिपक्षो ह्यसत्ता सत्ताया:, अत्रिलक्षणत्वं त्रिलक्षणाया:, अनेकत्वमेकस्या:, एकपदार्थस्थितत्वं सर्वपदार्थस्थिताया:, एकरूपत्वं सविश्वरूपाया:, एकपर्यायत्वमनन्तपर्यायाया इति । द्विविधा हि सत्ता—महासत्तावान्तरसत्ता च । तत्र सर्वपदार्थसार्थव्यापिनी सादृश्यास्तित्वसूचिका महासत्ता प्रोक्तैव । अन्या तु व्रतिनियतवस्तुवर्तिनी स्वरूपास्तित्वसूचिकाऽवान्तरसत्ता । तत्र महासत्ताऽवान्तरसत्तारूपेणाऽसत्ताऽवान्तरसत्ता च महासत्तारूपेणाऽसत्तेत्यसत्ता सत्ताया: । येन स्वरूपेणोत्पादस्तत्तथोत्पादैकलक्षणमेव, येन स्वरूपेणोच्छेदस्तत्तथोच्छेदेकलक्षणमेव, येन स्वरूपेण ध्रौव्यं तत्तथा ध्रौव्यैकलक्षणमेव, तत उत्पद्यमानोच्छिद्यमानावतिष्ठमानानां वस्तुन: स्वरूपाणां प्रत्येकं त्रैलक्षण्याभावादत्रिलक्षणत्वं त्रिलक्षणाया: । एकस्य वस्तुन: स्वरूपसत्ता नान्यस्य वस्तुन: एकरूपसत्ता भवतीत्यनेकत्वमेकस्या: । प्रतिनियतपदार्थस्थिताभिरेव सत्ताभि: पदार्थानां प्रतिनियमो भवतीत्येकपदार्थस्थितत्वं सर्वपदार्थस्थिताया: । प्रतिनियतैकरूपाभिरेव सत्ताभि: प्रतिनियतैकरूपत्वं वस्तूनां भवतीत्येकरूपत्वं सविश्वरूपाया: । प्रतिपर्यायनियताभिरेव सत्ताभि: प्रतिनियतैकपर्यायाणामानन्त्यं भवतीत्येकपर्यायत्वमनन्तपर्याया: । इति सर्वमनवद्यं सामान्यविशेषप्ररूपणप्रवणनयद्वयायत्तत्वात्तद्देशनाया: ॥८॥