GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 10 - समय-व्याख्या
From जैनकोष
अत्र त्रेधा द्रव्यलक्षणमुक्तम् । सद᳭द्रव्यलक्षणम् । उक्त लक्षणाया: सत्ताया अविशेषाद᳭द्रव्यस्य सत्स्वरूपमेव लक्षणम् । न चानेकान्तात्मकस्य द्रव्यस्य सन्मात्रमेव स्वं रूपं यतो लक्ष्यलक्षणविभागाभाव इति । उत्पादव्ययध्रौव्याणि वा द्रव्यलक्षणम् । एकजात्यविरोधिनि क्रमभुवां भावानां संताने पूर्वभावविनाश: समुच्छेद:, उत्तरभावप्रादुर्भावश्च समुत्पाद:, पूर्वोत्ताभावोच्छेदोत्पादयोरपि स्वजातेरपरित्यागो ध्रौव्यम् । तानि सामान्यादेशादभिन्नानि विशेषादेशाद᳭भिन्नानि युगपद᳭भावीनि स्वभावभूतानि द्रव्यस्य लक्षणं भवन्तीति । गुणपर्याया वा द्रव्यलक्षणम् । अनेकान्तात्मकस्य वस्तुनोऽन्वयिनो विशेषा विशेषा गुणा व्यतिरिकेण: पर्यायास्ते द्रव्ये यौगपद्येन क्रमेण च प्रवर्तमाना: कथंचिद᳭भिन्ना: स्वभावभूता: द्रव्यलक्षणतामापद्यन्ते । त्रयाणाप्यमीषां द्रव्यलक्षणानामेकस्मिन्नभिहितेऽन्यदुभयमर्थादेवापद्यते । सच्चेदुत्पादव्ययध्रौव्यवच्च गुणपर्यायवच्च । उत्पादव्ययध्रौव्यवच्चेत्सच्च गुणपर्यायवच्च । गुणपर्यायवच्चेत्सच्चोत्पादव्ययध्रौव्यवच्चेति । सद्धि नित्यनित्यस्वभावत्वाद् ध्रुवत्वमुत्पादव्ययात्मकतां च प्रथयति, ध्रुवत्वात्मकैर्गुणैरुत्पादव्ययात्मकै: पर्यायैश्च सहैकत्वं चाख्याति । उत्पादव्ययध्रौव्याणि तु नित्यानित्यस्वरूपं परमार्तं सदावेदयन्ति, गुणपर्यायाश्चात्मलाभनिबन्धनभूतान् प्रथयन्ति । गुणपर्यायाम्त्वन्वयव्यतिरेकित्वाद् ध्रौव्योत्पत्तिविनाशान् सूचयन्ति, नित्यानित्यस्वभावं परमार्थं सच्चेपलक्षयन्तीति ॥१०॥