GP:रत्नकरंड श्रावकाचार - श्लोक 102 - टीका
From जैनकोष
सामयिके सामायिकावस्थायाम् । नैव सन्ति न विद्यन्ते । के ? परिग्रहा: सङ्गा: । कथम्भूता: ? सारम्भा: कृष्याद्यारम्भसहिता: । कति ? सर्वेऽपि बाह्याभ्यन्तराश्चेतनेतरादिरूपा वा । यत एवं ततो याति प्रतिपद्यते । कम् ? यतिभावं यतित्वम् । कोऽसौ ? गृही श्रावक: । कदा ? सामायिकावस्थायाम् । क इव ? चेलोपसृष्टमुनिरिव चेलेन वस्त्रेण उपसृष्ट: उपसर्गवशाद्वेष्टित: स चासौ मुनिश्च स इव तद्वत् ॥