GP:रत्नकरंड श्रावकाचार - श्लोक 106 - टीका
From जैनकोष
प्रोषधोपवास: पुनज्र्ञातव्य: । कदा ? पर्वणि चतुर्दश्याम् । न केवलं पर्वणि, अष्टम्यां च । किं पुन: प्रोषधोपवासशब्दाभिधेयम् ? प्रत्याख्यानम् । केषाम् ? चतुरभ्यवहार्याणां चत्वारि अशनपानखाद्यलेह्यलक्षणानि तानि चाभ्यवहार्याणि च भक्षणीयानि तेषाम् । किं कस्याञ्चिदेवाष्टम्यां चतुर्दश्यां च तेषां प्रत्याख्यानमित्याह- सदा सर्वकालम् । काभि: इच्छाभिर्व्रतविधानवाञ्छाभिस्तेषां प्रत्याख्यानं न पुनव्र्यवहार कृतधरणकादिभि: ॥