GP:रत्नकरंड श्रावकाचार - श्लोक 107 - टीका
From जैनकोष
उपवासदिने परिहृतिं परित्यागं कुर्यात् । केषाम् ? पञ्चानां हिंसादीनाम् । तथा अलङ्क्रियारम्भगन्धपुष्पाणाम् अलङ्क्रियामण्डनं आरम्भो वाणिज्यादिव्यापार: गन्धपुष्पाणामित्युपलक्षणं रागहेतूनां गीतनृत्यादीनाम् । तथा स्नानाञ्जननस्यानां स्नानं च अञ्जनं च नस्यञ्च तेषाम् ॥