GP:रत्नकरंड श्रावकाचार - श्लोक 108 - टीका
From जैनकोष
उपवसन्नुपवासं कुर्वन् । धर्मामृतं पिबतु धर्मम् एवामृतं सकलपाणिनामाप्यायकत्वात् तत् पिबतु । काभ्याम् ? श्रवणाभ्याम् । कथम्भूत: ? सतृष्ण: साभिलाष: पिबन् न पुनरुपरोधादिवशात् । पाययेद् वान्यान् स्वमेवावगतधर्मस्वरूपस्तु अन्यतो धर्मामृतं पिबन् अन्यानविदिततत्स्वरूपान् पाययेत् तत् । ज्ञानध्यानपरो भवतु, ज्ञानपरो द्वादशानुप्रेक्षाद्युपयोगनिष्ठ: ।
अधु्रवाशरणे चैव भव एकत्वमेव च
अन्यत्वमशुचित्वं च तथैवास्रवसंवरौ ॥१॥
निर्जरा च तथा लोकबोधदुर्लभधर्मता
द्वादशैता अनुप्रेक्षा भाषिता जिनपुङ्गवै: ॥२॥
ध्यानपर: आज्ञापायविपाकसंस्थानविचयलक्षणधर्मध्याननिष्ठो वा भवतु । किंविशिष्ट: ? अतन्द्रालु: निद्रालस्यरहित: ॥