GP:रत्नकरंड श्रावकाचार - श्लोक 118 - टीका
From जैनकोष
चतुर्विकल्पस्य चतुर्विधवैयावृत्यस्य दानस्यैते श्रीषेणादयो दृष्टान्ता मन्तव्या: ।
तत्राहारदाने श्रीषेणो दृष्टान्त: । अस्य कथा --
मलयदेशे रत्नसञ्चयपुरे श्रीषेणो राज्ञो सिंहनन्दिता द्वितीया अनिन्दिता च । पुत्रौ क्रमेण तयोरिन्द्रोपेन्द्रौ । तत्रैव ब्राह्मण: सात्यकिनामा, ब्राह्मणी जम्बू, पुत्री सत्यभामा । पाटलिपुत्रनगरे ब्राह्मणो रुद्रभट्टो वटुकान् वेदं पाठयति । तदीयचेटिकापुत्रश्च कपिलनामा तीक्ष्णमतित्वात् छद्मना वेदं शृण्वन् तत्पारगो जातो। रुद्रभट्टेन च कुपितेन पाटलिपुत्रान्निर्घाटित: । सोत्तरीयं यज्ञोपवीतं परिधाय ब्राह्मणो भूत्वा रत्नसञ्चयपुरे गत: । सात्यकिना च तं वेदपारगं सुरूपं च दृष्ट्वा सत्यभामया योग्योऽयमिति मत्वा सा तस्मै दत्ता। सत्यभामा च रतिसमये विटचेष्टां तस्य दृष्ट्वा कुलजोऽयं न भविष्यतीति सा सम्प्रधार्य चित्ते विषादं वहन्ती तिष्ठति । एतस्मिन् प्रस्तावे रुद्रभट्टस्तीर्थयात्रां कुर्वाणो रत्नसञ्चयपुरे समायात: । कपिलेन प्रणम्य निजधवलगृहे नीत्वा भोजनपरिधानादिकं कारयित्वा सत्यभामाया: सकललोकानां च मदीयोऽयं पितेति कथितम् । सत्यभामया चैकदा रुद्रीभट्टस्य विशिष्टं भोजनं बहुसुवर्णं च दत्वा पादयोर्लगित्वा पृष्टं- तात ! तव शीलस्य लेशोऽपि कपिले नास्ति, तत: किमयं तव पुत्रो भवति न वेति सत्यं मे कथय । ततस्तेन कथितं, पुत्रि! मदीयचेटिकापुत्र इति । एतदाकण्र्य तदुपरि विरक्ता सा हठादयं मामभिगमिष्यतीति मत्वा सिंहनन्दिताग्रमहादेव्या: शरणं प्रविष्टा, तया च सा पुत्री ज्ञाता । एवमेकदा श्रीषेणराजेन परमभक्त्या विधिपूर्वककर्मकीत्र्यामितगतिचारणमुनिभ्यां दानं दत्तम् । तत्फलेन राज्ञा सह भोगभूमावुत्पन्ना । तदनुमोदनात् सत्यभामापि तत्रैवोत्पन्ना । स राजा श्रीषेणो दानप्रथमकारणात् पारम्पर्येण शान्तिनाथतीर्थङ्करो जात: । आहारदानफलम् ।
औषधदाने वृषभसेनाया दृष्टान्त: । अस्या: कथा-
जनपददेशे कावेरीपत्तने राजोग्रसेन:, श्रेष्ठी धनपति:, भार्या धनश्री:, पुत्री वृषभसेना, तस्या धात्री रूपवती नाम । एकदा वृषभसेनास्नानजलगर्तायां रोगगृहीतं कुक्कुरं पतितलुठितोऽत्थितं रोगरहितमालोक्य चिन्तितं धात्र्या- पुत्रीस्नानजलमेवास्यारोग्यत्वे कारणम्। ततस्तया धात्र्या निजजनन्या द्वादशवार्षिकाक्षिरोगगृहीता: कथिते तया लोचने तेन जलेन परीक्षार्थमेकदिने धौतदृष्टे च शोभने जाते । तत: सर्वरोगापनयने सा धात्री प्रसिद्धा तत्र नगरे सञ्जाता । एकदोग्रसेनेन रणपिङ्गलमन्त्री बहुसैन्यपेतो मेघपिङ्गलोपरि प्रेषित: । स तं देशं प्रविष्टो विषोदकसेवनात् ज्वरेण गृहीत: । स च व्याघुट्यागत: रूपवत्या च तेन जलेन नीरोगीकृत: । उग्रसेनोऽपि कोपात्तत्र गत: तथा ज्वरितो व्याघुट्याघातो रणपिङ्गलाज्जलवृत्तान्तमाकण्र्य तज्जलं याचितवान् । तो मन्त्री उक्तो धनश्रिया भो: श्रेष्ठिन् ! कथं नरपते: शिरसि पुत्रीस्नानजलं क्षिप्यते ? धनपतिनोक्तं यदि पृच्छति राजा जलस्वभावं तदा सत्यं कथ्यते न दोष: । एवं भणिते रूपवत्या तेने जलेन नीरोगीकृत उग्रसेन:। ततो नीरोगेण, राज्ञा पृष्टा रूपवती जलस्य माहात्म्यम्। तया च सत्यमेव कथितम् । ततो राज्ञा व्याहूत: श्रेष्ठी, स च भीत: राज्ञ: समीपमायात:। राज्ञा च गौरवं कृत्वा वृषभसेनां परिणेतुं स याचित:। तत: श्रेष्ठिना भणितं देव ! यद्यष्टाह्निकां पूजां जिनप्रतिमानां करोषि तथा पञ्जरस्थान् पक्षिगणान् मुञ्चसि तथा गुप्तिषु सर्वमनुष्यांश्च मुञ्चसि तदा ददामि । उग्रसेनेन च तत् सर्वं कृत्वा परिणीता वृषभसेना पट्टरानी च कृता । अतिवल्लभया तथैव च सह विमुच्यान्यकार्यं क्रीडां करोति । एतस्मिन् प्रस्तावे यो वाराणस्या: पृथिवीचन्द्रो नाम राजा धृत आस्ते सोऽतिप्रचण्डत्वात्तद्विवाहकालेऽपि न मुक्त: । ततस्तस्य या राज्ञी नारायणदत्ता तया मन्त्रिभि: सह मन्त्रयित्वा पृथिवीचन्द्रमोचनार्थं वाराणस्यां सर्वत्रावारितसत्कारा वृषभसेनाराज्ञीनाम्रा कारितास्तेषु भोजनं कृत्वा कावेरीपत्तनं ये गतास्तेभ्यो ब्राह्मणादिभ्यस्तं वृत्तान्तमाकण्र्य रुष्टया रूपवत्या भणिता वृषभसेने ! त्वं मामपृच्छन्ती वाराणस्यां कथं सत्कारान् कारयसि ? तया भणितमहं न कारयामि किन्तु मम नाम्ना केनचित्कारणेन केनापि कारिता: । तेषां शुद्धिं कुरु त्वमिति चरपुरुषै: कृत्वा यथार्थं ज्ञात्वा तया वृषभसेनाया: सर्वं कथितम्। तया च राजानं विज्ञाप्य मोचित: पृथ्वीचन्द्र:। तेन च चित्रफलके वृषभसेनोग्रसेनयो रूपे कारिते । तयोरधो निजरूपं सप्रणामं कारितम्। स फलकस्योर्दर्शित: भणिता च वृषभसेना राज्ञी- देवि! त्वं मम मातासि त्वत्प्रसादादिदं जन्म सफलं मे जातम्। तत उग्रसेन: सन्मानं दत्वा भणितवान् त्वया मेघपिङ्गलस्योपरि गन्तव्यमित्युक्त्वा स च ताभ्यां वाराणस्यां प्रेषित: । मेघपिङ्गलोऽप्येतदाकण्र्य ममायं पृथ्वीचन्द्रो मर्मभेदीति पर्यालोच्यागत्य चोग्रसेनस्यातिप्रसादित: सामन्तो जात:। उग्रसेनेन चास्थानस्थितस्य यन्मे प्राभृतमागच्छति तस्यार्धं मेघपिङ्गलस्य दास्यामि अर्धं च वृषभसेनाया इति व्यवस्था कृता। एवमेकदा रत्नकम्बलद्वयमागतमेकैकं सनामाङ्कं कृत्वा तयोर्दत्तम्। एकदा मेघपिङ्गलस्य राज्ञी विजयाख्या मेघपिङ्गलकम्बलं प्रावृत्य प्रयोजनेन रूपवतीपाश्र्वे गता । तत्र कम्बलपरिवर्तो जात:। एकदा वृषभेसनाकम्बलं प्रावृत्य मेघपिङ्गल: सेवायामुग्रसेनसभायामागत: राजा च तमालोक्यातिकोपाद्रक्ताक्षो बभूव । मेघपिङ्गलश्च तं तथाभूतमालोक्य ममोपरि कुपितोऽयं राजेति ज्ञात्वा दूरं नष्ट: । वृषभसेना च रुष्टेनोग्रसेनेन मारणार्थं समुद्रजले निक्षिप्ता । तया च प्रतिज्ञा गृहीता यदि एतस्मादुपसर्गादुद्धरिष्यामि तदा तप: करिष्यामीति । ततो व्रतमाहात्म्याज्जलदेवतया तस्या: सिंहासनादिप्रातिहार्यं कृतम् । तच्छ्रुत्वा पश्चात्तापं कृत्वा राजा तमानेतुं गत: । आगच्छता वनमध्ये गुणधरनामाऽवधिज्ञानी मुनिर्दृष्ट: । स च वृषभसेनया प्रणम्य निजपूर्वभव चेष्टितं पृष्ट: । कथितं च भगवता । यथा- पूर्वभवे त्वमत्रैव, ब्राह्मणपुत्री नागश्रीनामा जातासि । राजकीयदेवकुले सम्मार्जनं करोषि तत्र देवकुले चैकदाऽपराह्ने प्राकाराभ्यन्तरे निर्वातगर्तायां मुनि: दत्तनामा मुनि: पर्यङ्ककायोत्सर्गेण स्थित: । त्वया च रुष्टया भणित: कटकाद्राजा समायातोऽत्रागमिष्यतीत्युत्तिष्ठोत्तिष्ठ सम्मार्जनं करोमि लग्रेति बु्रवाणायास्तत्र मुनि: कायोत्सर्गं विधाय मौनेन स्थित: । ततस्त्वया कचवारेण पूरयित्वोपरि सम्मार्जनं कृतम् । प्रभाते तत्रागतेन राज्ञा तत्प्रदेशे क्रीडता उच्छ्वसितन:श्वसितप्रदेशं दृष्ट्वा उत्खन्य नि:सारितश्च स मुनि: । ततस्त्वयात्मनिन्दां कृत्वा धर्मे रुचि: कृता । परमादरेण च तस्य मुनेस्त्वया तत्पीडोपशमनार्थं विशिष्टमौपषदानं वैयावृत्यं च कृतम् । तेन निदानेन मृत्वेह धनपतिधनश्रियो: पुत्री वृषभसेना नाम जातासि । औषधदानफलात् सर्वौषधद्र्धिफलं जातम् । कचवारपूरणात् कलङ्किता च । इति श्रुत्वात्मानं मोचयित्वा वृषभसेना तत्समीपे आर्यिका जाता । औषधदानस्य फलम् ।
श्रुतदाने कौण्डेशो दृष्टान्त: । अस्य कथा --
कुरुमणिग्रामे गोपालो गोविन्दनामा। तेन च कोटरादुद्धृत्य चिरन्तनपुस्तकं प्रपूज्य भक्त्या पद्मनन्दिमुनये दत्तम् । तेन पुस्तकेन तत्राटव्यां पूर्वभट्टारका: केचित् किल पूजां कृत्वा कारयित्वा च व्याख्यानं कृतवन्त: कोटरे च गतवन्तश्च । गोविन्देन च वाल्यात्प्रभृति तं दृष्ट्वा नित्यमेव पूजा कृता वृक्षकोटरस्यापि । एष स गोविन्दो निदानेन मृत्वा तत्रैव ग्रामकूटस्य पुत्रोऽभूत् । तमेव पद्मनन्दिमुनिमालोक्य जातिस्मरो जात: । तपो गृहीत्वा कोण्डेशनामा महामुनि: श्रुतधरोऽभूत्। इति श्रुतदानस्य फलम् ।
वसतिदाने सूकरो दृष्टान्त: । अस्य कथा --
मालवदेशे घटग्रामे कुम्भकारो देविलनामा नापितश्च धमिल्लनामा । ताभ्यां पथिकजनानां वसतिनिमित्तं देवकुलं कारितम् । एकदा देविलेन मुनये तत्र प्रथमं वसतिर्दत्ता धमिल्लेन च पश्चात् परिव्राजकस्तत्रानीय धृत: । ताभ्यां च धमिल्लपरिव्राजकाभ्यां नि:सारित: स मुनिर्वृक्षमूले रात्रौ दंशमशकशीतादिकं सहमान: स्थित: । प्रभाते देविलधमिल्लौ तत्कारणेन परस्परं युद्धं कृत्वा मृत्वा विन्ध्ये क्रमेण सुकरव्याघ्रौ प्रौढौ जातौ । यत्र च गुहायां स सूकरस्तिष्ठति तत्रैव च गुहायामेकदा समाधिगुप्तत्रिगुप्तमुनी आगत्य स्थितौ । तौ च दृष्ट्वा जातिस्मरो भूत्वा देविलचरसूकरो धर्ममाकण्र्य व्रतं गृहीतवान् । तत्प्रस्तावे मनुष्यगन्धमाघ्राय मुनिभक्षणार्थं स व्याघ्रोऽपि तत्रायात: । सूकरश्च तयो रक्षानिमित्तं गुहाद्वारे स्थित: । तत्रापि तौ परस्परं युध्वा मृतौ । सूकरो मुनिरक्षणाभिप्रायेण शुभाभिसन्धित्वात् मृत्वा सौधर्मे महद्र्धिको देवो जात: । व्याघ्रस्तु मुनिभक्षणाभिप्रायेणातिरौद्राभिप्रायत्वान्मृत्वा नरकं गत: । वसतिदानस्य फलम् ॥