GP:रत्नकरंड श्रावकाचार - श्लोक 120 - टीका
From जैनकोष
भेको मण्डूक: । प्रमोदमत्तो विशिष्टधर्मानुरागेण हृष्ट: । अवदत् कथितवान् । किमित्याह -- अर्हदित्यादि । अर्हतश्चरणौ अर्हच्चरणौ तयो: सपर्या पूजा तस्या: महानुभावं विशिष्टं माहात्म्यम् । केषामवदत्? महात्मनां भव्यजीवानाम् । केन कृत्वा ? कुसुमेनैकेन । क्व ? राजगृहे ।
अस्य कथा
मगधदेशे राजगृहनगरे राजा श्रेणिक:, श्रेष्ठी नागदत्त:, श्रेष्ठिनी भवदत्ता । स नागदत्त: श्रेष्ठी सर्वदा मायायुक्तत्वान्मृत्वा निजप्राङ्गणवाप्यां भेको जात: । तत्र चागतामेकदा भवदत्ताश्रेष्ठिनीमालोक्य जातिस्मरो भूत्वा तस्या: समीपे आगत्य उपर्युत्प्लुत्य चटित: । तया च पुन: पुनर्निर्घाटितो रटति, पुनरागत्य चटति च । ततस्तया कोऽप्ययं मदीयो इष्टो भविष्यतीति सम्प्रधार्यावधिज्ञानी सुव्रतमुनि: पृष्ट: । तेन च तद्वृत्तान्ते कथिते गृहे नीत्वा परमगौरवेणासौ धृत:। श्रेणिकमहाराजश्चैकदा वर्धमानस्वामिनं वैभारपर्वते समागतमाकण्र्य आनन्दभेरीं दापयित्वा महता विभवेन तं वन्दितुं गत: । श्रेष्ठिन्यादौ च गृहजने वन्दनाभक्त्यर्थं गते स भेक: प्राङ्गणवापीकमलं पूजानिमित्तं गृहीत्वा गच्छन् हस्तिन: पादेन चूर्णयित्वा मृत: । पूजानुरागवशेनोपार्जितपुण्यप्रभावात् सौधर्मे महद्र्धिकदेवो जात: । अवधिज्ञानेन पूर्वभववृत्तान्तं ज्ञात्वा निजमुकुटाग्रे भेकचिह्नं कृत्वा समागत्य वर्धमानस्वामिनं वन्दमान: श्रेणिकेन दृष्ट: । ततस्तेन गौतमस्वामी भेकचिह्नेऽस्य किं कारणमिति पृष्ट: तेन च पूर्ववृत्तान्त: कथित:। तच्छ्रुत्वा सर्वे जना: पूजातिशयविधाने उद्यता: सञ्जाता इति ॥