GP:रत्नकरंड श्रावकाचार - श्लोक 123 - टीका
From जैनकोष
सकलदर्शिन: स्तुवते प्रशसन्ति । किं तत् ? तप:फलं तपस: फलं तप:फलं सफलं तप इत्यर्थ: । कथम्भूतं सत् ? अन्त:क्रियाधिकरणं अन्ते क्रियां संन्यास: तस्या अधिकरणं समाश्रयो यत्तपस्तत्फलम् । यत एवं, तस्माद्यावद्विभवं यथाशक्ति । समाधिमरणे प्रयतितव्यं प्रकृष्टो यत्न: कर्तव्य: ॥