GP:रत्नकरंड श्रावकाचार - श्लोक 129 - टीका
From जैनकोष
जीवितं च मरणं च तयोराशंसे आकाङ्क्षे । भयमिहपरलोकभयम् । इहलोकभयं हि क्षुत्पिपासापीडादिविषयं परलोकभयं- एवंविधदुर्धरानुष्ठानाद्विशिष्टं फलं परलोके भविष्यति न वेति । मित्रस्मृति: बाल्याद्यवस्थायां सहक्रीडितमित्रानुस्मरणम् । निदानं भाविभोगाद्याकाङ्क्षणम् । एतानि पञ्चनामानि येषां ते तन्नामान: सल्लेखनाया: पञ्चातिचारा: । जिनेन्द्रैस्तीर्थङ्करै: । समादिष्टा आगमे प्रतिपादिता: ॥