GP:रत्नकरंड श्रावकाचार - श्लोक 13 - टीका
From जैनकोष
निर्विचिकित्सतामता अभ्युपगता । कासौ ? निजुर्गुप्सा विचिकित्साभाव: । क्व ? काये । किंविशिष्टे ? स्वभावतोऽशुचौ स्वरूपेणापवित्रिते । इत्थम्भूतेऽपिकाये रत्नत्रयपवित्रिते रत्नत्रयेणपवित्रितेपूज्यतांनीते । कुतस्तथाभूतेनिर्जुगुप्साभवतीत्याह - गुणप्रीति: यतोगुणेन-रत्नत्रयाधारभूत-मुक्तिसाधकत्वलक्षणेन-प्रीतिर्मनुष्य-शरीरमेवेदं-मोक्षसाधकंनान्यद्देवादि-शरीर-मित्यनुराग: । ततस्तत्रनिर्जुगुप्सेति ॥१३॥