GP:रत्नकरंड श्रावकाचार - श्लोक 21 - टीका
From जैनकोष
'दर्शनं="" कर्तृ'। जन्मसन्ततिं संसारप्रबन्धम् । छेत्तुम् उच्छेदयितुं 'नालं' न समर्थम् । कथम्भूतं सत् अङ्गहीनम् अङ्गैर्नि:शङ्कितत्त्वादिस्वरूपैर्हीनं विकलम् । अस्यैवार्थस्य समर्थनार्थं दृष्टान्तमाह- न हि इत्यादि । सर्पादिदष्टस्य प्रसृतसर्वाङ्गविषवेदनस्य तदपहरणार्थं प्रयुक्तो मन्त्रोऽक्षरेणापि न्यूनो हीनो न ही नैव निहन्ति स्फोटयति विषवेदनाम् । तत: सम्यग्दर्शनस्य संसारोच्छेदसाधनेऽष्टाङ्गोपेतत्वं युक्तमेव त्रिमूढापोढत्ववत् ॥२१॥