GP:रत्नकरंड श्रावकाचार - श्लोक 22 - टीका
From जैनकोष
लोकमूढं लोकमूढत्वम् ? किम् ? आपगासागरस्नानम् आपगा नदी सागर: समुद्र: तत्र श्रेय: साधनाभिप्रायेण यत्स्नानं न पुन: शरीरप्रक्षालनाभिप्रायेण । तथा उच्चय: स्तूपविधानम् । केषाम् ? सिकताश्मनां सिकता वालुका, अश्मान: पाषाणस्तेषां । तथा गिरिपातो भृगुपातादि: । अग्रिपातश्च अग्रिप्रवेश: । एवमादि सर्वं लोकमूढं निगद्यते प्रतिपाद्यते ॥२२॥