GP:रत्नकरंड श्रावकाचार - श्लोक 23 - टीका
From जैनकोष
देवतामूढं='तदुच्यते'। यदुपासीत आराधयेत् । का: देवता: । कथम्भूता: रागद्वेषमलीमसा: रागद्वेषाभ्यां मलीमसा: मलिना: । किंविशिष्टा: ? आशावान् ऐहिकफलाभिलाषी । कया ? वरोपलिप्सया वरस्य वाञ्छितफलस्य, उपलिप्सया प्राप्तुमिच्छया । नन्वेवं श्रावकादीनां शासनदेवतापूजाविधानादिकं सम्यग्दर्शनम्लानताहेतु: प्राप्नोतीति चेत् एवमेतत् यदि वरोपलिप्सया कुर्यात् । यदा तु शासनसक्तदेवतात्वेन तासां तत्करोति तदा न तन्म्लानताहेतु: । तत् कुर्वतश्च दर्शनपक्षपाताद्वरमयाचितमपि ता: प्रयच्छन्त्येव । तदकरणे चेष्टदेवता विशेषात् फलप्राप्तिर्विघ्नतो झटिति न सिद्धयति । न हि चक्रवर्तिपरिवारापूजने सेवकानां चक्रवर्तिन: सकाशात् तथा फलप्राप्तिर्दृष्टा ॥२३॥