GP:रत्नकरंड श्रावकाचार - श्लोक 2 - टीका
From जैनकोष
देशयामि कथयामि । कं ? धर्मं । कथंभूतं ? समीचीनम् अबाधितं तदनुष्ठातॄणामिह परलोके चोपकारकम् । कथं तं तथा निश्चितवन्तो भवन्त इत्याह कर्मनिबर्हणं यतो धर्मः संसारदुःखसम्पादककर्मणां निबर्हणो विनाशकस्ततो यथोक्तविशेषणविशिष्टः । अमुमेवार्थं व्युत्पत्तिद्वारेणास्य समर्थयमानः संसारेत्याद्याह संसारे चर्तुगतिके दुःखानि शरीरमानसादीनि तेभ्यः सत्त्वान् प्राणिन उद्धृत्य यो धरति स्थापयति । क्व ? उत्तमे सुखे स्वर्गापवर्गादि प्रभवे सुखे स धर्म इत्युच्यते ॥२॥