GP:रत्नकरंड श्रावकाचार - श्लोक 43 - टीका
From जैनकोष
बोध: समीचीन: सत्यं श्रुतज्ञानम् । बोधति जानाति । कम् ? प्रथमानुयोगम् । किं पुन: प्रथमानुयोगशब्देनाभिधीयते इत्याह- चरितं पुराणमपि एकपुरुषाश्रिता कथा चरितं त्रिषष्टिशलाकापुरुषाश्रिता कथा पुराणं, तदुभयमपि प्रथमानुयोगशब्दाभिधेयम्। तस्य प्रकल्पितत्वव्यवच्छेदार्थमर्थाख्यानमिति विशेषणम्, अर्थस्य परमार्थस्य विषयस्याख्यानं प्रतिपादनं यत्र येन वा तम् । तथा पुण्यं प्रथमानुयोगं हि शृण्वतां पुण्यमुत्पद्यते इति पुण्यहेतुत्वात्पुण्यं तदनुयोगम् । तथा बोधिसमाधिनिधानम् अप्राप्तानां हि सम्यग्दर्शनादीनां प्राप्तिर्बोधि:, प्राप्तानां तु पर्यन्तप्रापणं समाधि: ध्यानं वा धम्र्यं शुक्लं च समाधि: तयोर्निधानम् । तदनुयोगं हि शृण्वतां सद्दर्शनादे: प्राप्त्यादिकं धम्र्यध्यानादिकं च भवति ॥२॥