GP:रत्नकरंड श्रावकाचार - श्लोक 50 - टीका
From जैनकोष
हिंसादिविरतिलक्षणं यच्चरणं प्राक्प्ररूपितं तत् सकलं विकलं च भवति । तत्र सकलं परिपूर्णं महाव्रतरूपम् । केषां तद्भवति ? अनगाराणां मुनीनाम् । किंविशिष्टानां सर्वसङ्गविरतानां बाह्याभ्यन्तरपरिग्रहरहितानाम् । विकलं परिपूर्णम् अणुव्रतरूपम् । केषां तद्भवति सागाराणां गृहस्थानाम् । कथम्भूतानाम् । कथम्भूतानाम् ? ससङ्गानां सग्रन्थानाम् ॥