GP:रत्नकरंड श्रावकाचार - श्लोक 51 - टीका
From जैनकोष
गृहिणां सम्बन्धी यत् विकलं चरणं तत् त्रेधा त्रिप्रकारम् । तिष्ठति भवति । किं विशिष्टं सत् ? अणुगुणशिक्षाव्रतात्मकं सत् अणुव्रतरूपं गुणव्रतरूपं शिक्षाव्रतरूपं सत् । त्रयमेव । तत्प्रत्येकम् । यथासङ्ख्यम् । पञ्चत्रिचतुर्भेदमाख्यातं प्रतिपादितम् । तथाहि- अणुव्रतं पञ्चभेदं गुणव्रतं त्रिभेदं शिक्षाव्रतं चतुर्भेदमिति ॥