GP:रत्नकरंड श्रावकाचार - श्लोक 53 - टीका
From जैनकोष
चरसत्त्वान् त्रसजीवान् । यन्न हिनस्ति । तदाहु: स्थूलवधाद्विरमणम् । के ते ? निपुणा: हिंसादि-विरतिव्रतविचारदक्षा: । कस्मान्न हिनस्ति ? सङ्कल्पात् सङ्कल्पं हिंसाभिसन्धिमाश्रित्य । कथम्भूतात् सङ्कल्पात् ? कृतकारितानुमननात् कृतकारितानुमननरूपात् । कस्य सम्बन्धिन: ? योगत्रयस्य मनोवाक्कायत्रयस्य । अत्र कृतवचनं कर्तु: स्वातन्त्र्यप्रतिपत्त्यर्थम् । कारितानुविधानं परप्रयोगोक्षमनुवचनम् । अनुमननवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनाथम् । तथा हि -- मनसा चरसत्त्वहिंसां स्वयं न करोमि, चरसत्त्वान् हिनस्मीति मन: सङ्कल्पं न करोमीत्यर्थ: । मनसा चरसत्त्वहिंसामन्यं न कारयामि, चरसत्त्वान् हिंसय-हिंसयेति मनसा प्रयोजको न भवामीत्यर्थ: । तथा अन्यं चरसत्त्वहिंसां कुर्वन्तं मनसा नानुमन्ये, सुन्दरमनेन कृतमिति मन: सङ्कल्पं न करोमीत्यर्थ: । एवं वचसा स्वयं चरसत्त्वहिंसां न करोमि चरसत्त्वान् हिनस्मीति स्वयं वचनं नोच्चारयामीत्यर्थ: । वचसा चरसत्त्वहिंसां न करोमि चरसत्त्वान् हिनस्मीति स्वयं वचनं नोच्चारयामीत्यर्थ: । वचसा चरसत्त्वहिंसां न कारयामि चरसत्त्वान् हिंसय हिंसयेति वचनं नोच्चारयामीत्यर्थ: । तथा वचसा चरसत्त्वहिंसां कुर्वन्तं नानुमन्ये, साधुकृतं त्वयेति वचनं नोच्चारयामीत्यर्थ: । तथा कायेन चरसत्त्वहिंसा न करोमि, चरसत्त्वहिंसने दृष्टिमुष्टिसन्धाने स्वयं कायव्यापारं न करोमीत्यर्थ: । तथा कायेन चरसत्त्वहिंसां न कारयामि, चरसत्त्वहिंसने कायसञ्ज्ञया परं न प्रेरयामीत्यर्थ: । तथा चरसत्त्वहिंसां कुर्वन्तमन्यं नरवच्छोटिकादिना कायेन नानुमन्ये । इत्युक्तमहिंसाणुव्रतम् ॥५३॥