GP:रत्नकरंड श्रावकाचार - श्लोक 59 - उत्थानिका
From जैनकोष
सा परदारनिवृत्ति: यत् परदारान् परिगृहीतानपरिगृहीतांश्च । स्वयं न च नैव । तथा परानन्यान् परदारलम्पटान् न गमयति परदारेषु गच्छती यत्प्रयोजनानि न च । कुत: ? पापभीते: पापोपार्जनभयात् न पुन: नृपत्यादिभयात् । न केवलं सा परदारनिवृत्तिरेवोच्यते किन्तु स्वदारसन्तोषनामापि स्वदारेषु सन्तोष: स्वदारसन्तोषस्तन्नाम यस्या: ॥