GP:रत्नकरंड श्रावकाचार - श्लोक 60 - उत्थानिका
From जैनकोष
अस्मरस्या ब्रह्मनिवृत्त्यणुव्रतस्य । पञ्च व्यतीचारा: । कथमित्याह- अन्येत्यादि- कन्यादानं विवाहोऽन्यस्य विवाहोऽन्यविवाह: तस्य आ समन्तात् करणं, तच्च अनङ्गक्रीडा च अङ्गं लिङ्गं योनिश्च तयोरन्यत्र मुखादिप्रदेशे क्रीडा अनङ्गक्रीडा । विटत्वं भण्डिमाप्रधानकायवाक्प्रयोग: । विपुलतृट् च कामतीव्राभिनिवेश: । इत्वरिकागमनं च परपुरुषानेति गच्छतीत्येवंशीला इत्वरी पुंश्चली कुत्सायां के कृते इत्वरिका भवति तत्र गमनं चेति ॥