GP:रत्नकरंड श्रावकाचार - श्लोक 64 - टीका
From जैनकोष
हिंसा विरत्यणुव्रतात् मातङ्गेन चाण्डालेन उत्तम: पूजातिशय: प्राप्त: ।
अस्य कथा
सुरम्यदेशे पोदनपुरे राजा महाबल: । नन्दीश्वराष्टम्यां राज्ञा अष्टदिनानि जीवामारणघोषणायां कृतायां बलकुमारेण चात्यन्तमांसासक्तेन कञ्चिदपि पुरुषमपश्यता राजोद्याने राजकीयमेण्ढक: प्रच्छनेन मारियत्वा संस्कार्य भक्षित: । राज्ञा च मेण्ढकमारणवार्तामाकण्र्य रुष्टेन मेण्ढकमारको गवेषयितुं प्रारब्ध: । तदुद्यानमालाकारेण च वृक्षोपरि चटितेन स तन्मारणं कुर्वाणो दृष्ट: । रात्रौ च निजभार्याया: कथितम् । तत: प्रच्छन्नचरपुरुषेणाकण्र्य राज्ञ: कथितम् । प्रभाते मालाकारोऽप्याकारित: । तेनैव पुन: कथितम् । मदीयामाज्ञां मम पुत्र: खण्डयतीति रुष्टेन राज्ञा कोट्टपालो भणितो बलकुमारं नवखण्डं कारयेति । ततस्तं कुमारं मारणस्थानं नीत्वा मातङ्गमानेतुं ये गता: पुरुषास्तान् विलोक्य मातङ्गेनोक्तं प्रिये! मातङ्गो ग्रामं गत इति कथयत्वेतेषामित्युक्त्वा गृहकोणे प्रच्छन्नो भूत्वा स्थित: । तलारैश्चाकारिते मातङ्गे कथितं मातङ्ग्या सोऽद्य ग्रामं गत: । भणितं च तलारै: स कुमारमारणात्तस्य बहुसुवर्णरत्नादिलाभो भवेत । तेषां वचनमाकण्र्य द्रव्यलुब्धया तथा हस्तसञ्ज्ञया स दर्शितो ग्रामं गत इति पुन: पुनर्भणन्त्या । ततस्तैस्तं गृहान्नि:सार्य तस्य मारणार्थं स कुमार: समर्पित: । तेनोक्तं नाहमद्य चतुर्दशीदिने जीवघातं करोमि । ततस्तलारै: स नीत्वा राज्ञ: कथित:, देव! अयं राजकुमारं न मारयति । तेन च राज्ञ: कथितं सर्पदष्टो मृत: श्मशाने निक्षिप्त: सर्वौषधिमुनिशरीरस्य वायुना पुनजीर्वितोऽहं तत्पाश्र्वे चतुर्दशीदिवसे मया जीवाहिंसाव्रतं गृहीतमतोऽद्य न मारयामि देवो यज्जानाति तत्करोतु । अस्पृश्यचाण्डालस्य व्रतमिति सञ्चिन्त्य रुष्टेन राज्ञा द्वावपि गाढं बन्धयित्वा सुमारद्रहे निक्षेपितौ । तत्र मातङ्गस्य प्राणात्ययेऽप्यहिंसाव्रतमपरित्यजतो व्रतमाहात्म्याज्जलदेवतया जलमध्ये सिंहासनमणिमण्डपिका-दुन्दुभिसाधुकारादिप्रातिहार्यादिकं कृतम् । महाबलराजेन चैतदाकण्र्य भीतेन पूजयित्वा निजच्छत्रतले स्वापयित्वा स स्पृश्यो विविष्ट कृत इति प्रथमाणुव्रतस्य ।
अनृतविरत्यणुव्रताद्धनदेवश्रेष्ठिना पूजातिशय: प्राप्त: ।
अस्य कथा
जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविषये पुण्डरीकिण्यां पुर्यां वणिजौ जिनदेवधनदेवौ स्वल्पद्रव्यौ । तत्र धनदेव: सत्यवादी । द्रव्यस्य लाभं द्वावप्यर्धमर्धं ग्रहीष्याव इति नि:साक्षिकां व्यवस्थां कृत्वा दूरदेशं गतौ बहुद्रव्यमुपाज्र्य व्याघुट्य कुशलेन पुण्डरीकिण्यामायातौ । तत्र जिनदेवो लाभार्धं धनदेवाय न ददाति । स्तोकद्रव्यमौचित्येन ददाति ततो झकटके न्याये च सति स्वजनमहाजनराजाग्रतो नि:साक्षिकव्यवहारबलाज्जिनदेवो वदति न मयाऽस्य लाभार्धं भणितमुचितमेव भणितम् । धनदेवश्च सत्यमेव वदति द्वयोरर्धमेव ततो राजनियमात्तयोर्दिव्यं दत्तं धनदेव: शुद्धो नेतर: । तत: सर्वं द्रव्यं धनदेवस्य समर्पितं तथा सर्वै: पूजित: साधुकारितश्चेति द्वितीयाणुव्रतस्य ।
चौर्यविरत्यणुव्रताद्वारिषेणेन पूजातिशय: प्राप्त: ।
अस्य कथा स्थितीकरणगुणव्याख्यानप्रघट्टके कथितेह द्रष्टव्येति तृतीयाणुव्रतस्य ।
तत: परं नीली जयश्च । ततस्तेभ्य: परं यथा भवत्येवं पूजातिशयं प्राप्तौ । तत्राब्रह्मविरत्यणुव्रतान्नीली वणिक्पुत्री पूजातिशयं प्राप्ता ।
अस्या: कथा
लाटदेशे भृगुकच्छपत्तने राजा वसुपाल: । वणिग्जिनदत्तो भार्या जिनदत्ता पुत्री नीली अतिशयेन रूपवती । तत्रैवापर: श्रेष्ठी समुद्रदत्तो भार्या सागरदत्ता पुत्र: सागरदत्त: । एकता महापूजायां वसन्तौ कायोत्सर्गेण संस्थितां सर्वाभरणविभूषितां नीलीमालोक्य सागरदत्तेनोक्तं किमेषापि देवता काचिदेतदाकण्र्य तन्मित्रेण प्रियदत्तेन भणितं- जिनदत्तश्रेष्ठिन इयं पुत्री नीली । तद्रूपालोकनादतीवासक्तो भूत्वा कथमियं प्राप्यत इति तत्परिणयनचिन्तया दुर्बलो जात: । समुद्रदत्तेन चैतदाकण्र्य भणित:- हे पुत्र! जैनं मुक्त्वा नान्यस्य जिनदत्तो ददातीमां पुत्रिकां परिणेतुम् । ततस्तौ कपटश्रावकौ जातौ परिणीता च सा, तत: पुनस्तौ बुद्धभक्तौ जातौ, नील्याश्च पितृगृहे गमनमपि निषिद्धम्, एवं वञ्चने जाते भणित जिनदत्तेन- इयं मम न जाता कूपादौ वा पतिता यमेन वा नीता इति । नीली च श्वसुरगृहे भर्तु: वल्लभा भिन्नगृहे जिनधर्ममनुतिष्ठन्ती तिष्ठति । दर्शनात् संसर्गाद् धर्मवचनाकर्णनाद्वा कालेनेयं बुद्धभक्ता भविष्यतीति पर्यालोच्य समुद्रदत्तेन भणिता नीली पुत्री! ज्ञानिनां वन्दकानामस्मदर्थं भोजनं देहि । ततस्तया वन्दकानामामन्त्र्याहूय च तेषामेकैका प्राणहितातिपिष्टा संस्कार्य तेषामेव भोक्तुं दत्ता । तैर्भोजनं भुक्त्वा गच्छद्भि: प्रष्टं- क्व प्राणहिता:? तयोक्तं भवन्तं एव ज्ञानेन जानन्तु यत्र तास्तिष्ठन्ति, यदि पुनज्र्ञानं नास्ति तदा वमनं कुर्वन्तु भवतामुदरे प्राणहितास्तिष्ठन्तीति । एवं वमने कृते दृष्टानि प्राणहिताखण्डानि । ततो रुष्टश्च श्वसुरपक्षजन: । तत: सागरदत्तभगिन्या कोपात्तस्या असत्यपरपुरुषदोषोद्भावना कृता । तस्मिन् प्रसिद्धिं गते सा नीली देवाग्रे संन्यासं गृहीत्वा कायोत्सर्गेण स्थिता, ‘दोषोत्तारे भोजनादौ प्रवृत्तिर्मम नान्यथेति’ तत: क्षुभितनगरदेवतया आगत्य रात्रौ सा भणिता- हे महासति! मा प्राणत्यागमेवं कुरु, अहं राज्ञ: प्रधानानां पुरजनस्य स्वप्नं ददामि । लग्रा यथा नगरप्रतीत्य: कीलिता महासतीवामचरणेन संश्पृश्य उद्घटिष्यन्ति इति । ताश्च प्रभाते भवच्चरणं स्पृष्ट्वा एवं वा उद्घटिष्यन्तीति पादेन प्रतोलीस्पर्शं कुर्यास्त्वमिति भणित्वा राजादीनां तथा स्वप्रं दर्शयित्वा पत्तनप्रतीली: स्थिता सा नगरदेवता । प्रभाते कीलिता: प्रतीलीर्दृष्ट्वा राजादिभिस्तं स्वप्रं स्मृत्वा नगरस्त्रीचरणताडनं प्रतीलीनां कारितम् । न चैकापि प्रतोली कयाचिदप्युद्घाटिता । सर्वासां पश्चात् नीली तत्रोत्क्षिप्य नीता । तच्चरणस्पर्शात् सर्वा अप्युद्घटिता: प्रतोल्य:, निर्दोषा राजादिपूजिता च नीली जाता चतुर्थाणुव्रतस्य ।
परिग्रहविरत्यणुव्रताज्जय: पूजातिशयं प्राप्त: ।
अस्य कथा
कुरुजाङ्गलदेशे हस्तिनागपुरे कुरुवंशे राजा सोमप्रभ:, पुत्रो जय: परिमितपरिग्रहो भार्यासुलोचनायामेव प्रवृत्ति: । एकदा पूर्वविद्याधरभव कथनानन्तरं समायात पूर्वजन्मविद्यौ हिरण्यधर्मप्रभावतीविद्याधररूपमादाय च मेर्वादौ वन्दनाभक्तिं कृत्वा कैलासगिरौ भरतप्रतिष्ठापितचतुर्विंशतिजिनालयान् वन्दितुमायातौ सुलोचनाजयौ । तत्प्रस्तावे च सौधर्मेन्दे्रण जयस्य स्वर्गे परिग्रहपरिमाणव्रतप्रशंसा कृता । तां परीक्षितुं रतिप्रभदेव: समायात: । तत: स्त्रीरूपमादाय चतसृभिर्विलासिनीभि: सह जयसमीपं गत्वा भणितो जय: । सुलोचनास्वयंवरे येन त्वया सह सङ्ग्राम: कृत: तस्य नमिविद्याधरपते राज्ञीं सुरूपामभिनवयौवनां सर्वविद्याधारिणीं तद्विरक्तचित्तामिच्छ, यदि तस्य राज्यमात्मजीवितं च वाञ्छसीति । एतदाकण्र्य जयेनोक्तं- हे सुन्दरि! मैवं ब्रूहि, परस्त्री मम जननीसमानेति । ततस्तया जयस्योपसर्गे महति कृतेऽपि चित्तं न चलितम् । ततो मायामुपसंहृत्य पूर्ववृत्तं कथयित्वा प्रशस्य वस्त्रादिभि: पूजयित्वा स्वर्गं गत इति पञ्चमाणुव्रतस्य॥ १८॥