GP:रत्नकरंड श्रावकाचार - श्लोक 72 - टीका
From जैनकोष
त्यागस्तु पुनर्महाव्रतं भवति। केषां त्याग: हिंसादीनां पञ्चानाम् । कथम्भूतानां पापानां पापोपार्जनहेतुभूतानाम् । कैस्तेषां त्याग: मनोवच:कायै: । तैरपि कै: कृत्वा त्याग: ? कृतकारितानुमोदै: । अयमर्थ:- हिंसादीनां मनसा कृतकारितानुमोदैस्त्याग: । तथा वचसा कायेन चेति । केषां तैस्त्यागो महाव्रतम् ? महतां प्रमत्तादिगुणस्थानवर्तिनां विशिष्टात्मनाम् ॥