GP:रत्नकरंड श्रावकाचार - श्लोक 75 - टीका
From जैनकोष
दण्डा इव दण्डा अशुभमनोवाक्काया: परपीडाकरत्वात्, तान्न धरन्तीत्यदण्डधरा गणधरदेवादयस्ते प्राहु: । कान् ? अनर्थदण्डान् । कति ? ‘पञ्च’ । कथमित्याह पापेत्यादि । पापोपदेशश्च हिंसादानं च अपध्यानं च दु:श्रुतिश्च एताश्चतस्र: प्रमादचर्या चेति पञ्चामी ॥