GP:रत्नकरंड श्रावकाचार - श्लोक 76 - टीका
From जैनकोष
स्मर्तव्यो ज्ञातव्य: । क: ? पापोपदेश: पाप: पापोपार्जनहेतुरुपदेश: । कथम्भूत: ? कथाप्रसङ्ग: कथानां तिर्यक्क्लेशादिवार्तानां प्रसङ्ग: पुन: पुन: प्रवृत्ति: । किंविशिष्ट: ? प्रसव: प्रसूत इति प्रभव: उत्पादक: । केषामित्याह -- तिर्यगित्यादि, तिर्यक्क्लेशश्च हस्तिदमनादि:, वणिज्या च वणिजां कर्म क्रयविक्रयादि, हिंसा च प्राणिवध:, आरम्भश्च कृष्यादि:, प्रलम्भनं च वञ्चनं तानि आदिर्येषां मनुष्यक्लेशादीनां तानि तथोक्तानि तेषाम् ॥