GP:रत्नकरंड श्रावकाचार - श्लोक 78 - टीका
From जैनकोष
अपध्यानं शासति प्रतिपादयन्ति । के ते ? विशदा विचक्षणा: । क्व ? जिनशासने । किं तत् ? आध्यानं चिन्तनम् । कस्य ? वधबन्धच्छेदादे: । कस्मात् ? द्वेषात् । न केवलं द्वेषादपि रागाद्वा ध्यानम् । कस्य ? परकलत्रादे: ॥