GP:रत्नकरंड श्रावकाचार - श्लोक 85 - टीका
From जैनकोष
अवहेयं त्याज्यम् । किं तत् ? मूलकम् । तथा शृङ्गवेराणि आद्र्रकाणि । किं विशिष्टानि ? आद्र्राणि अशुष्काणि । तथा नवनीतं च । निम्बकुसुममित्युपलक्षणं सकलकुसुमविशेषाणां तेषाम् । तथा कैतकं केतक्या इदं कैतकं गुधरा इत्येवम्, इत्यादि सर्वमवहेयम् । कस्मात् अल्पफलबहुविघातात् । अल्पं फलं यस्यासावल्पफल:, बहूनां त्रसजीवानां विघातो विनाशो बहुविघात: अल्पफलश्चासौ बहुविघातश्च तस्मात् ॥३९॥