GP:रत्नकरंड श्रावकाचार - श्लोक 86 - टीका
From जैनकोष
यदनिष्टम् उदरशूलादिहेतुतया प्रकृतिसात्म्यकं यन्न भवति तद्व्रतयेत् व्रतनिवृत्तिं कुर्यात् त्यजेदित्यर्थ: । न केवलमेतदेव व्रतयेदपितु यच्चानुपसेव्यमेतदपि जह्यात् । यच्च यदपि गोमूत्र-करभदुग्ध-शङ्खचूर्ण-ताम्बूलोद्गाललाला-मूत्र-पुरीष-शलेष्मादिकमनुपसेव्यं प्रासुकमपि शिष्टलोकानामास्वादनायोग्यम् एतदपि जह्यात् व्रतं कुर्यात् । कुत एतदित्याह- अभिसन्धीत्यादि-अनिष्टतया अनुपसेव्यतया च व्यावृत्तेर्योग्यविषयादभिसन्धिकृताऽभिप्रायपूर्विका या विरति: सा यतो व्रतं भवति ॥