GP:रत्नकरंड श्रावकाचार - श्लोक 87 - टीका
From जैनकोष
भोगोपभोगसंहारात् भोगोपभोगयो: संहारात् परिमाणात् तमाश्रित्य । द्वेधा विहितौ द्वाभ्यां प्रकाराभ्यां द्वेधा व्यवस्थापितौ । कौ ? नियमो यमच्चे त्येतौ । तत्र को नियम: कश्च यम इत्याह -- नियम: परिमितकालो वक्ष्यमाण: परिमित: कालो यस्य भोगोपगोभसंहारस्य स नियम: । यमश्च यावज्जीवं ध्रियते ॥