GP:रत्नकरंड श्रावकाचार - श्लोक 96 - टीका
From जैनकोष
अत्यया अतिचारा: । पञ्च व्यपदिश्यन्ते कथ्यन्ते । के ते ? इत्याह -- प्रेषणेत्यादिमर्यादीकृते देशे स्वयं स्थितस्य ततो बहिरिदं कुर्विति विनियोग: प्रेषणम् । मर्यादीकृतदेशाद्बहिव्र्यापारं कुर्वत: कर्मकरान् प्रति खात्करणादि: शब्द: । तद्देशाद्बहि: प्रयोजनवशादिदमानयेत्याज्ञापनमानयनम् । मर्यादीकृतदेशे स्थितस्य बहिर्देशे कर्म कुर्वतां कर्मकरणां स्वविग्रहप्रदर्शनं रूपाभिव्यक्ति: । तेषामेव लोष्ठादिनिपात: पुद्गलक्षेप: ॥