GP:रत्नकरंड श्रावकाचार - श्लोक 9 - टीका
From जैनकोष
आप्तोपज्ञं सर्वज्ञस्य प्रथमोक्ति: । अनुल्लङ्घ्यं यस्मात्तदाप्तोपज्ञं तस्मादिन्द्रादीनामनुल्लङ्घ्यमादेयं । कस्मात् ? तदुपज्ञत्वेन तेषामनुल्लङ्घ्यं यत: । अदृष्टेष्टविरोधकं दृष्टं प्रत्यक्षं, इष्टमनुमानादि, न विद्यते दृष्टेष्टाभ्यां विरोधो यस्य । तथाविधमपि कुतस्तत्सिद्धमित्याह- तत्त्वोपदेशकृत् यतस्तत्त्वस्य च सप्तविधस्य जीवादिवस्तुनो यथावस्थितस्वरूपस्य वा उपदेशकृत्यथावत्प्रतिदेशकं ततो दृष्टेष्टविरोधकं । एवंविधमपिकस्मादवगतम् ? यत: सार्वं सर्वेभ्यो हितं सार्वमुच्यते तत्कथं यथावत्तत्स्वरूपप्ररूपणमन्तरेणघटते । एतदप्यस्य कुतो निश्चितमित्याह -- कापथघट्टनं यत: कापथस्य कुत्सितमार्गस्य मिथ्यादर्शनादेर्घट्टनंनिराकारकं सर्वज्ञप्रणीतं शास्त्रं ततस्तत्सार्वमिति ॥९॥