साध्य विकल्प
From जैनकोष
न्यायविनिश्चय/ वृत्ति/2/211/240/28 तत्र नित्यशब्दोऽमूर्तत्वादिति साधने कर्मवदिति साध्यविकलं निदर्शनम् अनित्यत्वात् कर्मण:। परमाणु वदिति साधनविकलं मूर्तत्वात् परमाणुनाम् । घटवदित्युभयविकलम् अनित्यत्वान्मूर्तत्वाच्च घटस्य। ‘रागादिमान् सुगत: कृतकत्वात्’ इत्यत्र रथ्यापुरुषवदिति संदिग्धसाध्यं रथ्यापुरुषं रागादिमत्त्वस्य निश्चेतुमशक्यत्वात् प्रत्यक्षस्याप्रवृत्ते: व्यापारादेश्च रागादिप्रभवस्यान्यत्रापि संभवात्, वीतरागाणामपि सरागवच्चेष्टोपपत्ते:। मरणधर्मायं रागादिमत्त्वात् इत्यत्र संदिग्धसाधनं तत्र रागादिमत्त्वाऽनिश्चयस्योक्तत्वात् । अतएव असर्वज्ञोऽयं रागादिमत्त्वादित्यंतसंदिग्धोभयम् । रागादिमत्त्वे वक्तृत्वादित्यनन्वयम्, रागादिमत्त्वस्यैव तत्रासिद्धौ तत्रान्वयस्यासिद्धे:। अप्रदर्शितान्वयं यथा शब्दोऽनित्य: कृतकत्वात् घटादिवदिति। न ह्यत्र ‘यद्यत्कृतकं तत्तदनित्यम्’ इत्यन्वयदर्शनमस्ति। विपरीतान्वयं यथा यदनित्यं तत्कृतकमिति। तदेवं नव साधर्म्येण दृष्टांताभासा: । वैधर्म्येणापि नवैव। तद्यथा नित्य: शब्द: अमूर्तत्वात् यदनित्यं न भवति तदमूर्तमपि न भवति परमाणुवदिति साध्यव्यावृत्तं परमाणुषु साधनव्यावृत्तावपि साध्यस्य नित्यत्वस्याव्यावृत्ते:। कर्मवदिति साधनाव्यावृत्तं तत्र साध्यव्यावृत्तावपि साधनस्य अमूर्तत्वस्याव्यावृत्ते: आकाशवदित्युभयावृत्तम् अमूर्तत्वनित्यत्वयोरुभयोरप्याकाशादव्यावृत्ते:। संदिग्धसाध्यव्यतिरेकं यथा सुगत: सर्वज्ञोऽनुपदेशादिप्रमाणोपपन्नतत्त्ववचनात्, यस्तु न सर्वज्ञो नासौ तद्वचनो यथा वीथी पुरुष इति तत्र सर्वज्ञत्वव्यतिरेकस्यानिश्चयात् परचेतोवृत्तीनामित्थंभावेन दुरवबोधत्वात् । संदिग्धसाधनव्यतिरेकं यथा अनित्य: शब्द: सत्त्वात् यदनित्यं न भवति तत्सदपि न भवति यथा गमनमिति, गगने हि सत्त्वव्यावृत्तिरनुपलंभात्, तस्य च न गमकत्वमदृश्यविषयत्वात् । संदिग्धोभयव्यतिरेकं यथा य: संसारी स न तद्वान् यथा बुद्ध इति, बुद्धात् संसारित्वाविद्यादिमत्त्वव्यावृत्ते: अनवधारणात् । तस्य च तृतीये प्रस्तावे निरूपणात् । अव्यतिरेकं यथा नित्य: शब्द: अमूर्तत्त्वात् यन्न नित्यं न तदमूर्तं यथा घट इति घटे साध्यनिवृत्तेर्भावेऽपि हेतुव्यतिरेकस्य तत्प्रयुक्तत्वाभावात् कर्मण्यनित्येऽप्यमूर्तत्वभावात् । अप्रदर्शितव्यतिरेकं यथा अनित्य: शब्द: सत्त्वात् वैधर्म्येण आकाशपुष्पवदितिं। विपरीत व्यतिरेकं यथा अत्रैव साध्ये यत्सन्न भवति तदनित्यमपि न भवति यथा व्योमेति साधनव्यावृत्त्या साध्यनिवृत्तेरुपदर्शनात् । =
...... ‘परमाणुवत्’ ऐसा दृष्टांत देना साधनविकल्प है, क्योंकि वह मूर्त है और अमूर्तत्व रूप साधन से (हेतु से) विपरीत है। .....
अधिक जानकारी के लिये देखें दृष्टांत - 8।