GP:प्रवचनसार - गाथा 146.1 - तात्पर्य-वृत्ति
From जैनकोष
अथ त एवप्राणा भेदनयेन दशविधा भवन्तीत्यावेदयति --
इन्द्रियप्राणः पञ्चविधः, त्रिधा बलप्राणः, पुनश्चैक आनपानप्राणः, आयुःप्राणश्चेति भेदेन दशप्राणास्तेऽपि चिदानन्दैकस्वभावात्परमात्मनो निश्चयेन भिन्ना ज्ञातव्या इत्यभिप्रायः ॥१५८॥