GP:प्रवचनसार - गाथा 153 - तत्त्व-प्रदीपिका
From जैनकोष
अथ पर्यायव्यक्तीर्दर्शयति -
नारकस्तिर्यङ्मनुष्यो देव इति किल पर्याया जीवानाम् । ते खलु नामकर्मपुद्गलविपाक-करणत्वेनानेकद्रव्यसंयोगात्मकत्वात् कुकूलाङ्गारादिपर्याया जातवेदस: क्षोदखिल्वसंस्थानादिभिरिव संस्थानादिभिरन्यथैव भूता भवन्ति ॥१५३॥