GP:प्रवचनसार - गाथा 168 - तत्त्व-प्रदीपिका
From जैनकोष
अथात्मन: पुद्गलपिण्डानेतृत्वाभावमवधारयति -
यतो हि सूक्ष्मत्वपरिणतैर्बादरपरिणतैश्चानतिसूक्ष्मत्वस्थूलत्वात् कर्मत्वपरिणमनशक्तियोगिभिरतिसूक्ष्मस्थूलतया तदयोगिभिश्चावगाहविशिष्टत्वेन परस्परबाधमानै: स्वयमेव सर्वत एव पुद्गलकायैर्गाढं निचितो लोक: । ततोऽवधार्यते न पुद्गलपिण्डानामानेता पुरुषो-ऽस्ति ॥१६८॥