GP:प्रवचनसार - गाथा 232 - तत्त्व-प्रदीपिका
From जैनकोष
अथ श्रामण्यापरनाम्नो मोक्षमार्गस्यैकाग्र्यलक्षणस्य प्रज्ञापनं तत्र तन्मूलसाधनभूते प्रथममागम एव व्यापारयति -
श्रमणो हि तावदैकाग्र्यगत एव भवति । ऐकाग्र्यं तु निश्चितार्थस्यैव भवति । अर्थनिश्चय-स्त्वागमादेव भवति । तत आगम एव व्यापार: प्रधानतर:, न चान्या गतिरस्ति ।
यतो न खल्वागममन्तरेणार्था निश्चेतुं शक्यन्ते, तस्यैव हि त्रिसमयप्रवृत्तत्रिलक्षणसकल-पदार्थसार्थयाथात्म्यावगमसुस्थितान्तरङ्गगम्भीरत्वात् ।
न चार्थनिश्चयमन्तरेणैकाग्र्यं सिद्धय्येत्, यतोऽनिश्चितार्थस्य कदाचिन्निश्चिकीर्षाकुलित-चेतस: समन्ततो दोलायमानस्यात्यन्ततरलतया, कदाचिच्चिकीर्षाज्वरपरवशस्य विश्वं स्वयं सिसृक्षोर्विश्वव्यापारपरिणतस्य प्रतिक्षणविजृम्भमाणक्षोभतया, कदाचिद्बुभुक्षाभावितस्य विश्वं स्वयं भोग्यतयोपादाय रागद्वेषदोषकल्माषितचित्तवृत्तेरिष्टानिष्टविभागेन प्रवर्तितद्वैतस्य प्रतिवस्तुपरिणममानस्यात्यन्तविसंस्ठुलतया, कृतनिश्चयनि:क्रियनिर्भोगं युगपदापीतविश्व-मप्यविश्वतयैकं भगवन्तमात्मानपश्यत: सततं वैयग्र्यमेव स्यात् ।
न चैकाग्र्यमन्तरेण श्रामण्यं सिद्धय्येत्, यतोऽनैकाग्र्यस्यानेकमेवेदमिति पश्यतस्तथा-प्रत्ययाभिनिविष्टस्यानेकमेवेदमिति जानतस्तथानुभूतिभावितस्यानेकमेवेदमितिप्रत्यर्थ-विकल्पव्यावृत्तचेतसा संततं प्रवर्तमानस्य तथावृत्तिदु:स्थितस्य चैकात्मप्रतीत्यनुभूतिवृत्ति-स्वरूपसम्यग्दर्शनज्ञानचारित्रपरिणतिप्रवृत्तदृशिज्ञप्तिवृत्तिरूपात्मतत्त्वैकाग्र्याभावात् शुद्धात्म-तत्त्वप्रवृत्तिरूपं श्रामण्मेव न स्यात् ।
अत: सर्वथा मोक्षमार्गापरनाम्न: श्रामण्यस्य सिद्धये भगवदर्हत्सर्वज्ञोपज्ञे प्रकटानेकान्त-केतने शब्दब्रह्माणि निष्णातेन मुमुक्षुणा भवितव्यम् ॥२३२॥