GP:प्रवचनसार - गाथा 250 - तत्त्व-प्रदीपिका
From जैनकोष
यो हि परेषां शुद्धात्मवृत्तित्राणाभिप्रायेण वैयावृत्त्यप्रवृत्त्या स्वस्य संयमं विराधयति स गृहस्थधर्मानुप्रवेशात् श्रामण्यात् प्रच्यवते । अतो या काचन प्रवृत्ति: सा सर्वथा संयमाविरोधेनैव विधातव्या: । प्रवृत्तवपि संयमस्यैव साध्यत्वात् ॥२५०॥