GP:प्रवचनसार - गाथा 260 - तत्त्व-प्रदीपिका
From जैनकोष
अथाविपरीतफलकारणं कारणमविपरीतं व्याख्याति -
यथोक्तलक्षणा एव श्रमणा मोहद्वेषाप्रशस्तरागोच्छेदादशुभोपयोगवियुक्ता: सन्त:, सकल-कषायोदयविच्छेदात् कदाचित् शुद्धोपयुक्ता: प्रशस्तरागविपाकात्कदाचिच्छुभोपयुक्ता:, स्वयं मोक्षायतनत्वेन लोकं निस्तारयन्ति, तद्भक्तिभावप्रवृत्तप्रशस्तभावा भवन्ति परे च पुण्य-भाज: ॥२६०॥