GP:प्रवचनसार - गाथा 312 - तत्त्व-प्रदीपिका
From जैनकोष
ननु कोऽयमात्मा कथं चावाप्यत इति चेत्, अभिहितमेतत् पुनरप्यभिधीयते । आत्माहितावच्चैतन्यसामान्यव्याप्तानन्तधर्माधिष्ठात्रेकं द्रव्यमनन्तधर्मव्यापकानन्तनयव्याप्येकश्रुत-ज्ञानलक्षणप्रमाणपूर्वकस्वानुभवप्रमीयमाणत्वात् । तत्तु द्रव्यनयेन पटमात्रवच्चिन्मात्रम् १ ।
पर्यायनयेन तन्तुमात्रवद्दर्शनज्ञानादिमात्रम् २ ।
अस्तित्वनयेनायोमयगुणकार्मुकान्तरालवर्ति-संहितावस्थलक्ष्योन्मुखविशिखवत् स्वद्रव्यक्षेत्रकालभावैरस्तित्ववत् ३ ।
नास्तित्वनयेनानयोमया-गुणकार्मुकान्तरालवर्त्यसंहितावस्थालक्ष्योन्मुखप्राक्त नविशिखवत् परद्रव्यक्षेत्रकालभावैर्नास्तित्ववत् ४ ।
अस्तित्वनास्तित्वनयेनायोमयानयोमयगुणकार्मुकान्तरालवर्त्यगुणकार्मुकान्तराल-वर्तिसंहितावस्थासंहितावस्थलक्ष्योन्मुखालक्ष्योन्मुखप्राक्तनविशिखवत् क्रमतः स्वपरद्रव्यक्षेत्र-कालभावैरस्तित्वनास्तित्ववत् ५ ।
अवक्तव्यनयेनायोमयानयोमयगुणकार्मुकान्तरालवर्त्यगुण-कार्मुकांतरालवर्तिसंहितावस्थासंहितावस्थलक्ष्योन्मुखालक्ष्योन्मुखप्राक्त नविशिखवत् युगपत्स्वपर-द्रव्यक्षेत्रकालभावैरवक्तव्यम् ६ ।
अस्तित्वावक्तव्यनयेनायोमयगुणकार्मुकान्तरालवर्तिसंहितावस्थ-लक्ष्योन्मुखायोमयानयोमयगुणकार्मुकान्तरालवर्त्यगुणकार्मुकान्तरालवर्तिसंहितावस्थासंहिता-वस्थलक्ष्योन्मुखालक्ष्योन्मुखप्राक्तनविशिखवत् स्वद्रव्यक्षेत्रकालभावैर्युगपत्स्वपरद्रव्यक्षेत्रकाल-भावैश्चास्तित्ववदवक्तव्यम् ७ ।
नास्तित्वावक्तव्यनयेनानयोमयागुणकार्मुकान्तरालवर्त्यसंहिता-वस्थालक्ष्योन्मुखायोमयानयोमयगुणकार्मुकान्तरालवर्त्यगुणकार्मुकान्तरालवर्तिसंहितावस्थासंहिता-वस्थलक्ष्योन्मुखालक्ष्योन्मुखप्राक्तनविशिखवत् परद्रव्यक्षेत्रकालभावैर्युगपत्स्वपरद्रव्यक्षेत्रकाल-भावैश्च नास्तित्ववदवक्तव्यम् ८ ।
अस्तित्वनास्तित्वावक्तव्यनयेनायोमयगुणकार्मुकान्तराल-वर्तिसंहितावस्थलक्ष्योन्मुखानयोमयागुणकार्मुकान्तरालवर्त्यसंहितावस्थालक्ष्योन्मुखायोमयानयो-मयगुणकार्मुकान्तरालवर्त्यगुणकार्मुकान्तरालवर्तिसंहितावस्थासंहितावस्थलक्ष्योन्मुखालक्ष्योन्मुख-प्राक्त नविशिखवत् स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैर्युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्चास्ति-त्वनास्तित्ववदवक्तव्यम् ९ ।
विकल्पनयेन शिशुकुमारस्थविरैकपुरुषवत् सविकल्पम् १० ।
अविकल्पनयेनैकपुरुषमात्रवदविकल्पम् ११ ।
नामनयेन तदात्मवत् शब्दब्रह्मामर्शि १२ ।
स्थापनानयेन मूर्तित्ववत् सकलपुद्गलालम्बि १३ ।
द्रव्यनयेन माणवकश्रेष्ठिश्रमणपार्थिव-वदनागतातीतपर्यायोद्भासि १४ ।
भावनयेन पुरुषायितप्रवृत्तयोषिद्वत्तदात्वपर्यायोल्लासि १५ ।
सामान्यनयेन हारस्रग्दामसूत्रवद्वयापि १६ ।
विशेषनयेन तदेकमुक्ताफलवदव्यापि १७ ।
नित्यनयेन नटवदवस्थायि १८ ।
अनित्यनयेन रामरावणवदनवस्थायि १९ ।
सर्वगतनयेनविस्फारिताक्षचक्षुर्वत्सर्ववर्ति २० ।
असर्वगतनयेन मीलिताक्षचक्षुर्वदात्मवर्ति २१ ।
शून्यनयेनशून्यागारवत्केवलोद्भासि २२ ।
अशून्यनयेन लोकाक्रान्तनौवन्मिलितोद्भासि २३ ।
ज्ञानज्ञेया-द्वैतनयेन महदिन्धनभारपरिणतधूमकेतुवदेकम् २४ ।
ज्ञानज्ञेयद्वैतनयेन परप्रतिबिम्बसम्पृक्त-दर्पणवदनेकम् २५ ।
नियतिनयेन नियतिनियमितौष्ण्यवह्निवन्नियतस्वभावभासि २६ ।
अनियतिनयेन नियत्यनियमितौष्ण्यपानीयवदनियतस्वभावभासि २७ ।
स्वभावनयेनानिशित-तीक्ष्णकण्टकवत्संस्कारानर्थक्यकारि २८ ।
अस्वभावनयेनायस्कारनिशिततीक्ष्णविशिखवत्संस्कार-सार्थक्य -कारि २९।
कालनयेन निदाघदिवसानुसारिपच्यमानसहकारफ लवत्समयायत्तसिद्धिः ३०।
अकालनयेन कृत्रिमोष्मपाच्यमानसहकारफलवत्समयानायत्तसिद्धिः ३१ ।
पुरुषकारनयेन पुरुषकारोपलब्धमधुकुक्कुटीकपुरुषकारवादिवद्यत्नसाध्यसिद्धिः ३२ ।
दैवनयेन पुरुषकार-वादिदत्तमधुकुक्कुटीगर्भलब्धमाणिक्यदैववादिवदयत्नसाध्यसिद्धिः ३३ ।
ईश्वरनयेन धात्रीहट्टा-वलेह्यमानपान्थबालकवत्पारतन्त्र्यभोक्तृ ३४ ।
अनीश्वरनयेन स्वच्छन्ददारितकुरंगकण्ठीरववत्स्वा-तन्त्र्यभोक्तृ ३५ ।
गुणिनयेनोपाध्यायविनीयमानकुमारकवद्गुणग्राहि ३६ ।
अगुणिनयेनोपाध्याय-विनीयमानकुमारकाध्यक्षवत् केवलमेव साक्षि ३७ ।
कर्तृनयेन रंजकवद्रागादिपरिणाम-कर्तृ ३८ ।
अकर्तृनयेन स्वकर्मप्रवृत्तरंजकाध्यक्षवत्केवलमेव साक्षि ३९ ।
भोक्तृनयेन हिता-हितान्नभोक्तृव्याधितवत् सुखदुःखादिभोक्तृ ४० ।
अभोक्तृनयेन हिताहितान्नभोक्तृ-व्याधिताध्यक्षधन्वन्तरिचरवत् केवलमेव साक्षि ४१ ।
क्रियानयेन स्थाणुभिन्नमूर्धजातदृष्टि-लब्धनिधानान्धवदनुष्ठानप्राधान्यसाध्यसिद्धिः ४२।
ज्ञाननयेन चणकमुष्टिक्रीतचिन्तामणिगृह-कोणवाणिजवद् विवेकप्राधान्यसाध्यसिद्धिः ४३।
व्यवहारनयेन बन्धकमोचकपरमाण्वन्तरसंयुज्य-मानवियुज्यमानपरमाणुवद् बन्धमोक्षयोर्द्वैतानुवर्ति ४४ ।
निश्चयनयेन केवलबध्यमानमुच्यमान-बन्धमोक्षोचितस्रिग्धरूक्षत्वगुणपरिणतपरमाणुवद्बन्धमोक्षयोरद्वैतानुवर्ति ४५ ।
अशुद्धनयेन घटशराव-विशिष्टमृण्मात्रवत्सोपाधिस्वभावम् ४६।
शुद्धनयेन केवलमृण्मात्रवन्निरुपाधिस्वभावम् ४७।
तदुक्तम् - ((जावदिया वयणवहा तावदिया चेव होंति णयवादा ।
जावदिया णयवादातावदिया चेव होंति परसमया ॥
परसमयाणं वयणं मिच्छं खलु होदि सव्वहा वयणा ।
जइणाणं पुण वयणं सम्मं खु कहंचि वयणादो ॥ ))
एवमनया दिशा प्रत्येकमनन्त-धर्मव्यापकानन्तनयैर्निरूप्यमाणमुदन्वदन्तरालमिलद्धवलनीलगांगयामुनोदकभारवदनन्तधर्माणां
परस्परमतद्भावमात्रेणाशक्यविवेचनत्वादमेचकस्वभावैकधर्मव्यापकैकधर्मित्वाद्यथोदितैकान्तात्मात्मद्रव्यम् । युगपदनन्तधर्मव्यापकानन्तनयव्याप्येकश्रुतज्ञानलक्षणप्रमाणेन निरूप्यमाणं तुसमस्ततरंगिणीपयःपूरसमवायात्मकैकमकराकरवदनन्तधर्माणां वस्तुत्वेनाशक्यविवेचनत्वान्मेचकस्वभावानन्तधर्मव्याप्येकधर्मित्वाद् यथोदितानेकान्तात्मात्मद्रव्यम् ।
((स्यात्कारश्रीवासवश्यैर्नयौघैःपश्यन्तीत्थं चेत् प्रमाणेन चापि ।
पश्यन्त्येव प्रस्फुटानन्तधर्मस्वात्मद्रव्यं शुद्धचिन्मात्रमन्तः ॥१९॥))
इत्यभिहितमात्मद्रव्यम् इदानीमेतदवाप्तिप्रकारोऽभिधीयते — अस्य तावदात्मनो नित्य-मेवानादिपौद्गलिककर्मनिमित्तमोहभावनानुभावघूर्णितात्मवृत्तितया तोयाकरस्येवात्मन्येव क्षुभ्यतः क्रमप्रवृत्ताभिरनन्ताभिर्ज्ञप्तिव्यक्तिभिः परिवर्तमानस्य ज्ञप्तिव्यक्तिनिमित्ततया ज्ञेयभूतासु बहिरर्थव्यक्तिषु प्रवृत्तमैत्रीकस्य शिथिलितात्मविवेकतयात्यन्तबहिर्मुखस्य पुनः पौद्गलिककर्म-निर्मापकरागद्वेषद्वैतमनुवर्तमानस्य दूरत एवात्मावाप्तिः । अथ यदा त्वयमेव प्रचण्डकर्म-काण्डोच्चण्डीकृताखण्डज्ञानकाण्डत्वेनानादिपौद्गलिककर्मनिर्मितस्य मोहस्य वध्यघातकविभाग-ज्ञानपूर्वकविभागकरणात् केवलात्मभावानुभावनिश्चलीकृतवृत्तितया तोयाकर इवात्मन्येवाति-निष्प्रकम्पस्तिष्ठन् युगपदेव व्याप्यानन्ता ज्ञप्तिव्यक्तीरवकाशाभावान्न जातु विवर्तते, तदास्य ज्ञप्तिव्यक्तिनिमित्ततया ज्ञेयभूतासु बहिरर्थव्यक्तिषु न नाम मैत्री प्रवर्तते; ततः सुप्रतिष्ठितात्मविवेकतयात्यन्तमन्तर्मुखीभूतः पौद्गलिककर्मनिर्मापकरागद्वेषद्वैतानुवृत्तिदूरीभूतोदूरत एवाननुभूतपूर्वमपूर्वज्ञानानन्दस्वभावं भगवन्तमात्मानमवाप्नोति । अवाप्नोत्वेवज्ञानानन्दात्मानं जगदपि परमात्मानमिति । भवति चात्र श्लोकः -
((आनन्दामृतपूरनिर्भरवहत्कैवल्यकल्लोलिनी-
निर्मग्नं जगदीक्षणक्षममहासंवेदनश्रीमुखम् ।
स्यात्कारांक जिनेशशासनवशादासादयन्तूल्लसत्स्वं
तत्त्वं वृतजात्यरत्नकिरणप्रस्पष्टमिष्टं जनाः ॥२०॥
व्याख्येयं किल विश्वमात्मसहितं व्याख्या तु गुम्फो
गिरांव्याख्यातामृतचन्द्रसूरिरिति मा मोहाज्जनो वल्गतु ।
वल्गत्वद्य विशुद्धबोधकलया स्याद्वादविद्याबलाद्लब्ध्वैकं
सकलात्मशाश्वतमिदं स्वं तत्त्वमव्याकुलः ॥२१॥
इति गदितमनीचैस्तत्त्वमुच्चावचं यत्चिति
तदपि किलाभूत्कल्पमग्नौ हुतस्य ।
अनुभवतु तदुच्चैश्चिच्चिदेवाद्य यस्माद्
अपरमिह न किंचित्तत्त्वमेकं परं चित् ॥२२॥))
समाप्तेयं तत्त्वदीपिका वृत्तिः ।