GP:प्रवचनसार - गाथा 71 - तत्त्व-प्रदीपिका
From जैनकोष
अथैवमिन्द्रियसुखमुत्क्षिप्य दु:खत्वे प्रक्षिपति -
इन्द्रियसुखभाजनेषु हि प्रधाना दिवौकस: । तेषामपि स्वाभाविकं न खलु सुखमस्ति, प्रत्युत तेषां स्वाभाविकं दु:खमेवावलोक्यते, यतस्ते पञ्चेन्द्रियात्मकशरीरपिशाचपीडया परवशा भृगुप्रपातस्थानीयन्मनोज्ञविषयानभिपतन्ति ॥७१॥